Shanti Parva, Adhyaya 287, Verse 1
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः
पराशरं महात्मानं धर्मे परमनिश्चयम्
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुनरेव तु पप्रच्छ जनको मिथिलाधिपः
पराशरं महात्मानं धर्मे परमनिश्चयम्
किं श्रेयः का गतिर्ब्रह्मन्किं कृतं न विनश्यति
क्व गतो न निवर्तेत तन्मे ब्रूहि महामुने
असङ्गः श्रेयसो मूलं ज्ञानं ज्ञानगतिः परा
चीर्णं तपो न प्रणश्येद्वापः क्षेत्रे न नश्यति
छित्त्वाधर्ममयं पाशं यदा धर्मेऽभिरज्यते
दत्त्वाभयकृतं दानं तदा सिद्धिमवाप्नुयात्
यो ददाति सहस्राणि गवामश्वशतानि च
अभयं सर्वभूतेभ्यस्तद्दानमतिवर्तते
वसन्विषयमध्येऽपि न वसत्येव बुद्धिमान्
संवसत्येव दुर्बुद्धिरसत्सु विषयेष्वपि
नाधर्मः श्लिष्यते प्राज्ञमापः पुष्करपर्णवत्
अप्राज्ञमधिकं पापं श्लिष्यते जतु काष्ठवत्
नाधर्मः कारणापेक्षी कर्तारमभिमुञ्चति
कर्ता खलु यथाकालं तत्सर्वमभिपद्यते
न भिद्यन्ते कृतात्मान आत्मप्रत्ययदर्शिनः
बुद्धिकर्मेन्द्रियाणां हि प्रमत्तो यो न बुध्यते
शुभाशुभेषु सक्तात्मा प्राप्नोति सुमहद्भयम्
वीतरागो जितक्रोधः सम्यग्भवति यः सदा
विषये वर्तमानोऽपि न स पापेन युज्यते
मर्यादायां धर्मसेतुर्निबद्धो नैव सीदति
पुष्टस्रोत इवायत्तः स्फीतो भवति संचयः
यथा भानुगतं तेजो मणिः शुद्धः समाधिना
आदत्ते राजशार्दूल तथा योगः प्रवर्तते
यथा तिलानामिह पुष्पसंश्रया;त्पृथक्पृथग्याति गुणोऽतिसौम्यताम्
तथा नराणां भुवि भावितात्मनां; यथाश्रयं सत्त्वगुणः प्रवर्तते
जहाति दारानिहते न संपदः; सदश्वयानं विविधाश्च याः क्रियाः
त्रिविष्टपे जातमतिर्यदा नर;स्तदास्य बुद्धिर्विषयेषु भिद्यते
प्रसक्तबुद्धिर्विषयेषु यो नरो; यो बुध्यते ह्यात्महितं कदा च न
स सर्वभावानुगतेन चेतसा; नृपामिषेणेव झषो विकृष्यते
संघातवान्मर्त्यलोकः परस्परमपाश्रितः
कदलीगर्भनिःसारो नौरिवाप्सु निमज्जति
न धर्मकालः पुरुषस्य निश्चितो; न चापि मृत्युः पुरुषं प्रतीक्षते
क्रिया हि धर्मस्य सदैव शोभना; यदा नरो मृत्युमुखेऽभिवर्तते
यथान्धः स्वगृहे युक्तो ह्यभ्यासादेव गच्छति
तथा युक्तेन मनसा प्राज्ञो गच्छति तां गतिम्
मरणं जन्मनि प्रोक्तं जन्म वै मरणाश्रितम्
अविद्वान्मोक्षधर्मेषु बद्धो भ्रमति चक्रवत्
यथा मृणालोऽनुगतमाशु मुञ्चति कर्दमम्
तथात्मा पुरुषस्येह मनसा परिमुच्यते
मनः प्रणयतेऽऽत्मानं स एनमभियुञ्जति
परार्थे वर्तमानस्तु स्वकार्यं योऽभिमन्यते
इन्द्रियार्थेषु सक्तः सन्स्वकार्यात्परिहीयते
अधस्तिर्यग्गतिं चैव स्वर्गे चैव परां गतिम्
प्राप्नोति स्वकृतैरात्मा प्राज्ञस्येहेतरस्य च
मृन्मये भाजने पक्वे यथा वै न्यस्यते द्रवः
तथा शरीरं तपसा तप्तं विषयमश्नुते
विषयानश्नुते यस्तु न स भोक्ष्यत्यसंशयम्
यस्तु भोगांस्त्यजेदात्मा स वै भोक्तुं व्यवस्यति
नीहारेण हि संवीतः शिश्नोदरपरायणः
जात्यन्ध इव पन्थानमावृतात्मा न बुध्यते
वणिग्यथा समुद्राद्वै यथार्थं लभते धनम्
तथा मर्त्यार्णवे जन्तोः कर्मविज्ञानतो गतिः
अहोरात्रमये लोके जरारूपेण संचरन्
मृत्युर्ग्रसति भूतानि पवनं पन्नगो यथा
स्वयं कृतानि कर्माणि जातो जन्तुः प्रपद्यते
नाकृतं लभते कश्चित्किंचिदत्र प्रियाप्रियम्
शयानं यान्तमासीनं प्रवृत्तं विषयेषु च
शुभाशुभानि कर्माणि प्रपद्यन्ते नरं सदा
न ह्यन्यत्तीरमासाद्य पुनस्तर्तुं व्यवस्यति
दुर्लभो दृश्यते ह्यस्य विनिपातो महार्णवे