Shanti Parva, Adhyaya 285, Verse 1
वर्णो विशेषवर्णानां महर्षे केन जायते
एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
वर्णो विशेषवर्णानां महर्षे केन जायते
एतदिच्छाम्यहं श्रोतुं तद्ब्रूहि वदतां वर
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः
एवमेतन्महाराज येन जातः स एव सः
तपसस्त्वपकर्षेण जातिग्रहणतां गतः
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति संभवः
अतोऽन्यतरतो हीनादवरो नाम जायते
वक्त्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रबन्धवः
ऊरुजा धनिनो राजन्पादजाः परिचारकाः
चतुर्णामेव वर्णानामागमः पुरुषर्षभ
अतोऽन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः
क्षत्रजातिरथाम्बष्ठा उग्रा वैदेहकास्तथा
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः
आयोगाः करणा व्रात्याश्चण्डालाश्च नराधिप
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परम्
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम्
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः
शूद्रयोनौ समुत्पन्ना वियोनौ च तथापरे
राजन्नैतद्भवेद्ग्राह्यमपकृष्टेन जन्मना
महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम्
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः
वटस्ताण्ड्यः कृपश्चैव कक्षीवान्कमठादयः
यवक्रीतश्च नृपते द्रोणश्च वदतां वरः
आयुर्मतङ्गो दत्तश्च द्रुपदो मत्स्य एव च
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसोऽऽश्रयात्
प्रतिष्ठिता वेदविदो दमे तपसि चैव हि
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव
नामधेयानि तपसा तानि च ग्रहणं सताम्
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम
तथा सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप
विशेषधर्मो विप्राणां रक्षा क्षत्रस्य शोभना
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि
द्विजानां परिचर्या च शूद्रकर्म नराधिप
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे
आनृशंस्यमहिंसा चाप्रमादः संविभागिता
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च
स्वेषु दारेषु संतोषः शौचं नित्यानसूयता
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप
ब्राह्मणाः क्षत्रिया वैश्यास्त्रयो वर्णा द्विजातयः
अत्र तेषामधीकारो धर्मेषु द्विपदां वर
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः
उन्नमन्ति यथासन्तमाश्रित्येह स्वकर्मसु
न चापि शूद्रः पततीति निश्चयो; न चापि संस्कारमिहार्हतीति वा
श्रुतिप्रवृत्तं न च धर्ममाप्नुते; न चास्य धर्मे प्रतिषेधनं कृतम्
वैदेहकं शूद्रमुदाहरन्ति; द्विजा महाराज श्रुतोपपन्नाः
अहं हि पश्यामि नरेन्द्र देवं; विश्वस्य विष्णुं जगतः प्रधानम्
सतां वृत्तमनुष्ठाय निहीना उज्जिहीर्षवः
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः
यथा यथा हि सद्वृत्तमालम्बन्तीतरे जनाः
तथा तथा सुखं प्राप्य प्रेत्य चेह च शेरते