Shanti Parva, Adhyaya 284, Verse 1
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
एष धर्मविधिस्तात गृहस्थस्य प्रकीर्तितः
तपोविधिं तु वक्ष्यामि तन्मे निगदतः शृणु
प्रायेण हि गृहस्थस्य ममत्वं नाम जायते
सङ्गागतं नरश्रेष्ठ भावैस्तामसराजसैः
गृहाण्याश्रित्य गावश्च क्षेत्राणि च धनानि च
दाराः पुत्राश्च भृत्याश्च भवन्तीह नरस्य वै
एवं तस्य प्रवृत्तस्य नित्यमेवानुपश्यतः
रागद्वेषौ विवर्धेते ह्यनित्यत्वमपश्यतः
रागद्वेषाभिभूतं च नरं द्रव्यवशानुगम्
मोहजाता रतिर्नाम समुपैति नराधिप
कृतार्थो भोगतो भूत्वा स वै रतिपरायणः
लाभं ग्राम्यसुखादन्यं रतितो नानुपश्यति
ततो लोभाभिभूतात्मा सङ्गाद्वर्धयते जनम्
पुष्ट्यर्थं चैव तस्येह जनस्यार्थं चिकीर्षति
स जानन्नपि चाकार्यमर्थार्थं सेवते नरः
बालस्नेहपरीतात्मा तत्क्षयाच्चानुतप्यते
ततो मानेन संपन्नो रक्षन्नात्मपराजयम्
करोति येन भोगी स्यामिति तस्माद्विनश्यति
तपो हि बुद्धियुक्तानां शाश्वतं ब्रह्मदर्शनम्
अन्विच्छतां शुभं कर्म नराणां त्यजतां सुखम्
स्नेहायतननाशाच्च धननाशाच्च पार्थिव
आधिव्याधिप्रतापाच्च निर्वेदमुपगच्छति
निर्वेदादात्मसंबोधः संबोधाच्छास्त्रदर्शनम्
शास्त्रार्थदर्शनाद्राजंस्तप एवानुपश्यति
दुर्लभो हि मनुष्येन्द्र नरः प्रत्यवमर्शवान्
यो वै प्रियसुखे क्षीणे तपः कर्तुं व्यवस्यति
तपः सर्वगतं तात हीनस्यापि विधीयते
जितेन्द्रियस्य दान्तस्य स्वर्गमार्गप्रदेशकम्
प्रजापतिः प्रजाः पूर्वमसृजत्तपसा विभुः
क्वचित्क्वचिद्व्रतपरो व्रतान्यास्थाय पार्थिव
आदित्या वसवो रुद्रास्तथैवाग्न्यश्विमारुताः
विश्वेदेवास्तथा साध्याः पितरोऽथ मरुद्गणाः
यक्षराक्षसगन्धर्वाः सिद्धाश्चान्ये दिवौकसः
संसिद्धास्तपसा तात ये चान्ये स्वर्गवासिनः
ये चादौ ब्रह्मणा सृष्टा ब्राह्मणास्तपसा पुरा
ते भावयन्तः पृथिवीं विचरन्ति दिवं तथा
मर्त्यलोके च राजानो ये चान्ये गृहमेधिनः
महाकुलेषु दृश्यन्ते तत्सर्वं तपसः फलम्
कौशिकानि च वस्त्राणि शुभान्याभरणानि च
वाहनासनयानानि सर्वं तत्तपसः फलम्
मनोनुकूलाः प्रमदा रूपवत्यः सहस्रशः
वासः प्रासादपृष्ठे च तत्सर्वं तपसः फलम्
शयनानि च मुख्यानि भोज्यानि विविधानि च
अभिप्रेतानि सर्वाणि भवन्ति कृतकर्मणाम्
नाप्राप्यं तपसा किंचित्त्रैलोक्येऽस्मिन्परंतप
उपभोगपरित्यागः फलान्यकृतकर्मणाम्
सुखितो दुःखितो वापि नरो लोभं परित्यजेत्
अवेक्ष्य मनसा शास्त्रं बुद्ध्या च नृपसत्तम
असंतोषोऽसुखायैव लोभादिन्द्रियविभ्रमः
ततोऽस्य नश्यति प्रज्ञा विद्येवाभ्यासवर्जिता
नष्टप्रज्ञो यदा भवति तदा न्यायं न पश्यति
तस्मात्सुखक्षये प्राप्ते पुमानुग्रं तपश्चरेत्
यदिष्टं तत्सुखं प्राहुर्द्वेष्यं दुःखमिहोच्यते
कृताकृतस्य तपसः फलं पश्यस्व यादृशम्
नित्यं भद्राणि पश्यन्ति विषयांश्चोपभुञ्जते
प्राकाश्यं चैव गच्छन्ति कृत्वा निष्कल्मषं तपः
अप्रियाण्यवमानांश्च दुःखं बहुविधात्मकम्
फलार्थी सत्पथत्यक्तः प्राप्नोति विषयात्मकम्
धर्मे तपसि दाने च विचिकित्सास्य जायते
स कृत्वा पापकान्येव निरयं प्रतिपद्यते