Mahabharata

Shanti Parva, Adhyaya 281

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 281, Verse 1

कः कस्य चोपकुरुते कश्च कस्मै प्रयच्छति

प्राणी करोत्ययं कर्म सर्वमात्मार्थमात्मना

Mahabharata

Shanti Parva, Adhyaya 281, Verse 2

गौरवेण परित्यक्तं निःस्नेहं परिवर्जयेत्

सोदर्यं भ्रातरमपि किमुतान्यं पृथग्जनम्

Mahabharata

Shanti Parva, Adhyaya 281, Verse 3

विशिष्टस्य विशिष्टाच्च तुल्यौ दानप्रतिग्रहौ

तयोः पुण्यतरं दानं तद्द्विजस्य प्रयच्छतः

Mahabharata

Shanti Parva, Adhyaya 281, Verse 4

न्यायागतं धनं वर्णैर्न्यायेनैव विवर्धितम्

संरक्ष्यं यत्नमास्थाय धर्मार्थमिति निश्चयः

Mahabharata

Shanti Parva, Adhyaya 281, Verse 5

न धर्मार्थी नृशंसेन कर्मणा धनमर्जयेत्

शक्तितः सर्वकार्याणि कुर्यान्नर्द्धिमनुस्मरेत्

Mahabharata

Shanti Parva, Adhyaya 281, Verse 6

अपो हि प्रयतः शीतास्तापिता ज्वलनेन वा

शक्तितोऽतिथये दत्त्वा क्षुधार्तायाश्नुते फलम्

Mahabharata

Shanti Parva, Adhyaya 281, Verse 7

रन्तिदेवेन लोकेष्टा सिद्धिः प्राप्ता महात्मना

फलपत्रैरथो मूलैर्मुनीनर्चितवानसौ

Mahabharata

Shanti Parva, Adhyaya 281, Verse 8

तैरेव फलपत्रैश्च स माठरमतोषयत्

तस्माल्लेभे परं स्थानं शैब्योऽपि पृथिवीपतिः

Mahabharata

Shanti Parva, Adhyaya 281, Verse 9

देवतातिथिभृत्येभ्यः पितृभ्योऽथात्मनस्तथा

ऋणवाञ्जायते मर्त्यस्तस्मादनृणतां व्रजेत्

Mahabharata

Shanti Parva, Adhyaya 281, Verse 10

स्वाध्यायेन महर्षिभ्यो देवेभ्यो यज्ञकर्मणा

पितृभ्यः श्राद्धदानेन नृणामभ्यर्चनेन च

Mahabharata

Shanti Parva, Adhyaya 281, Verse 11

वाचः शेषावहार्येण पालनेनात्मनोऽपि च

यथावद्भृत्यवर्गस्य चिकीर्षेद्धर्ममादितः

Mahabharata

Shanti Parva, Adhyaya 281, Verse 12

प्रयत्नेन च संसिद्धा धनैरपि विवर्जिताः

सम्यग्घुत्वा हुतवहं मुनयः सिद्धिमागताः

Mahabharata

Shanti Parva, Adhyaya 281, Verse 13

विश्वामित्रस्य पुत्रत्वमृचीकतनयोऽगमत्

ऋग्भिः स्तुत्वा महाभागो देवान्वै यज्ञभागिनः

Mahabharata

Shanti Parva, Adhyaya 281, Verse 14

गतः शुक्रत्वमुशना देवदेवप्रसादनात्

देवीं स्तुत्वा तु गगने मोदते तेजसा वृतः

Mahabharata

Shanti Parva, Adhyaya 281, Verse 15

असितो देवलश्चैव तथा नारदपर्वतौ

कक्षीवाञ्जामदग्न्यश्च रामस्ताण्ड्यस्तथांशुमान्

Mahabharata

Shanti Parva, Adhyaya 281, Verse 16

वसिष्ठो जमदग्निश्च विश्वामित्रोऽत्रिरेव च

भरद्वाजो हरिश्मश्रुः कुण्डधारः श्रुतश्रवाः

Mahabharata

Shanti Parva, Adhyaya 281, Verse 17

एते महर्षयः स्तुत्वा विष्णुमृग्भिः समाहिताः

लेभिरे तपसा सिद्धिं प्रसादात्तस्य धीमतः

Mahabharata

Shanti Parva, Adhyaya 281, Verse 18

अनर्हाश्चार्हतां प्राप्ताः सन्तः स्तुत्वा तमेव ह

न तु वृद्धिमिहान्विच्छेत्कर्म कृत्वा जुगुप्सितम्

Mahabharata

Shanti Parva, Adhyaya 281, Verse 19

येऽर्था धर्मेण ते सत्या येऽधर्मेण धिगस्तु तान्

धर्मं वै शाश्वतं लोके न जह्याद्धनकाङ्क्षया

Mahabharata

Shanti Parva, Adhyaya 281, Verse 20

आहिताग्निर्हि धर्मात्मा यः स पुण्यकृदुत्तमः

वेदा हि सर्वे राजेन्द्र स्थितास्त्रिष्वग्निषु प्रभो

Mahabharata

Shanti Parva, Adhyaya 281, Verse 21

स चाप्यग्न्याहितो विप्रः क्रिया यस्य न हीयते

श्रेयो ह्यनाहिताग्नित्वमग्निहोत्रं न निष्क्रियम्

Mahabharata

Shanti Parva, Adhyaya 281, Verse 22

अग्निरात्मा च माता च पिता जनयिता तथा

गुरुश्च नरशार्दूल परिचर्या यथातथम्

Mahabharata

Shanti Parva, Adhyaya 281, Verse 23

मानं त्यक्त्वा यो नरो वृद्धसेवी; विद्वान्क्लीबः पश्यति प्रीतियोगात्

दाक्ष्येणाहीनो धर्मयुक्तो नदान्तो; लोकेऽस्मिन्वै पूज्यते सद्भिरार्यः