Mahabharata

Shanti Parva, Adhyaya 280

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 280, Verse 1

मनोरथरथं प्राप्य इन्द्रियार्थहयं नरः

रश्मिभिर्ज्ञानसंभूतैर्यो गच्छति स बुद्धिमान्

Mahabharata

Shanti Parva, Adhyaya 280, Verse 2

सेवाश्रितेन मनसा वृत्तिहीनस्य शस्यते

द्विजातिहस्तान्निर्वृत्ता न तु तुल्यात्परस्परम्

Mahabharata

Shanti Parva, Adhyaya 280, Verse 3

आयुर्नसुलभं लब्ध्वा नावकर्षेद्विशां पते

उत्कर्षार्थं प्रयतते नरः पुण्येन कर्मणा

Mahabharata

Shanti Parva, Adhyaya 280, Verse 4

वर्णेभ्योऽपि परिभ्रष्टः स वै संमानमर्हति

न तु यः सत्क्रियां प्राप्य राजसं कर्म सेवते

Mahabharata

Shanti Parva, Adhyaya 280, Verse 5

वर्णोत्कर्षमवाप्नोति नरः पुण्येन कर्मणा

दुर्लभं तमलब्धा हि हन्यात्पापेन कर्मणा

Mahabharata

Shanti Parva, Adhyaya 280, Verse 6

अज्ञानाद्धि कृतं पापं तपसैवाभिनिर्णुदेत्

पापं हि कर्म फलति पापमेव स्वयं कृतम्

तस्मात्पापं न सेवेत कर्म दुःखफलोदयम्

Mahabharata

Shanti Parva, Adhyaya 280, Verse 7

पापानुबन्धं यत्कर्म यद्यपि स्यान्महाफलम्

न तत्सेवेत मेधावी शुचिः कुसलिलं यथा

Mahabharata

Shanti Parva, Adhyaya 280, Verse 8

किंकष्टमनुपश्यामि फलं पापस्य कर्मणः

प्रत्यापन्नस्य हि सतो नात्मा तावद्विरोचते

Mahabharata

Shanti Parva, Adhyaya 280, Verse 9

प्रत्यापत्तिश्च यस्येह बालिशस्य न जायते

तस्यापि सुमहांस्तापः प्रस्थितस्योपजायते

Mahabharata

Shanti Parva, Adhyaya 280, Verse 10

विरक्तं शोध्यते वस्त्रं न तु कृष्णोपसंहितम्

प्रयत्नेन मनुष्येन्द्र पापमेवं निबोध मे

Mahabharata

Shanti Parva, Adhyaya 280, Verse 11

स्वयं कृत्वा तु यः पापं शुभमेवानुतिष्ठति

प्रायश्चित्तं नरः कर्तुमुभयं सोऽश्नुते पृथक्

Mahabharata

Shanti Parva, Adhyaya 280, Verse 12

अज्ञानात्तु कृतां हिंसामहिंसा व्यपकर्षति

ब्राह्मणाः शास्त्रनिर्देशादित्याहुर्ब्रह्मवादिनः

Mahabharata

Shanti Parva, Adhyaya 280, Verse 13

तथा कामकृतं चास्य विहिंसैवापकर्षति

इत्याहुर्धर्मशास्त्रज्ञा ब्राह्मणा वेदपारगाः

Mahabharata

Shanti Parva, Adhyaya 280, Verse 14

अहं तु तावत्पश्यामि कर्म यद्वर्तते कृतम्

गुणयुक्तं प्रकाशं च पापेनानुपसंहितम्

Mahabharata

Shanti Parva, Adhyaya 280, Verse 15

यथा सूक्ष्माणि कर्माणि फलन्तीह यथातथम्

बुद्धियुक्तानि तानीह कृतानि मनसा सह

Mahabharata

Shanti Parva, Adhyaya 280, Verse 16

भवत्यल्पफलं कर्म सेवितं नित्यमुल्बणम्

अबुद्धिपूर्वं धर्मज्ञ कृतमुग्रेण कर्मणा

Mahabharata

Shanti Parva, Adhyaya 280, Verse 17

कृतानि यानि कर्माणि दैवतैर्मुनिभिस्तथा

नाचरेत्तानि धर्मात्मा श्रुत्वा चापि न कुत्सयेत्

Mahabharata

Shanti Parva, Adhyaya 280, Verse 18

संचिन्त्य मनसा राजन्विदित्वा शक्तिमात्मनः

करोति यः शुभं कर्म स वै भद्राणि पश्यति

Mahabharata

Shanti Parva, Adhyaya 280, Verse 19

नवे कपाले सलिलं संन्यस्तं हीयते यथा

नवेतरे तथाभावं प्राप्नोति सुखभावितम्

Mahabharata

Shanti Parva, Adhyaya 280, Verse 20

सतोयेऽन्यत्तु यत्तोयं तस्मिन्नेव प्रसिच्यते

वृद्धे वृद्धिमवाप्नोति सलिले सलिलं यथा

Mahabharata

Shanti Parva, Adhyaya 280, Verse 21

एवं कर्माणि यानीह बुद्धियुक्तानि भूपते

नसमानीह हीनानि तानि पुण्यतमान्यपि

Mahabharata

Shanti Parva, Adhyaya 280, Verse 22

राज्ञा जेतव्याः सायुधाश्चोन्नताश्च; सम्यक्कर्तव्यं पालनं च प्रजानाम्

अग्निश्चेयो बहुभिश्चापि यज्ञै;रन्ते मध्ये वा वनमाश्रित्य स्थेयम्

Mahabharata

Shanti Parva, Adhyaya 280, Verse 23

दमान्वितः पुरुषो धर्मशीलो; भूतानि चात्मानमिवानुपश्येत्

गरीयसः पूजयेदात्मशक्त्या; सत्येन शीलेन सुखं नरेन्द्र