Shanti Parva, Adhyaya 278, Verse 1
तिष्ठते मे सदा तात कौतूहलमिदं हृदि
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
तिष्ठते मे सदा तात कौतूहलमिदं हृदि
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह
कथं देवर्षिरुशना सदा काव्यो महामतिः
असुराणां प्रियकरः सुराणामप्रिये रतः
वर्धयामास तेजश्च किमर्थममितौजसाम्
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः
ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे
न याति च स तेजस्वी मध्येन नभसः कथम्
एतदिच्छामि विज्ञातुं निखिलेन पितामह
शृणु राजन्नवहितः सर्वमेतद्यथातथम्
यथामति यथा चैतच्छ्रुतपूर्वं मयानघ
एष भार्गवदायादो मुनिः सत्यो दृढव्रतः
असुराणां प्रियकरो निमित्ते करुणात्मके
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः स च
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः
रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु
हृते धने ततः शर्म न लेभे धनदस्तथा
आपन्नमन्युः संविग्नः सोऽभ्यगात्सुरसत्तमम्
निवेदयामास तदा शिवायामिततेजसे
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु
योगेनात्मगतिं कृत्वा निःसृतश्च महातपाः
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः
संरक्तनयनो राजञ्शूलमादाय तस्थिवान्
क्वास्वौ क्वासाविति प्राह गृहीत्वा परमायुधम्
उशना दूरतस्तस्य बभौ ज्ञात्वा चिकीर्षितम्
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः
गतिमागमनं वेत्ति स्थानं वेत्ति ततः प्रभुः
संचिन्त्योग्रेण तपसा महात्मानं महेश्वरम्
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत
विज्ञातरूपः स तदा तपःसिद्धेन धन्विना
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत्
आनतेनाथ शूलेन पाणिनामिततेजसा
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः
आस्यं विवृत्य ककुदी पाणिं संप्राक्षिपच्छनैः
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः
जठरे देवदेवस्य किं चाकार्षीन्महाद्युतिः
पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः
वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च
उदतिष्ठत्तपस्तप्त्वा दुश्चरं स महाह्रदात्
ततो देवातिदेवस्तं ब्रह्मा समुपसर्पत
तपोवृद्धिमपृच्छच्च कुशलं चैनमव्ययम्
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा
स तेनाढ्यो महायोगी तपसा च धनेन च
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान्
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत्
उशना तु समुद्विग्नो निलिल्ये जठरे ततः
तुष्टाव च महायोगी देवं तत्रस्थ एव च
निःसारं काङ्क्षमाणस्तु तेजसा प्रत्यहन्यत
उशना तु तदोवाच जठरस्थो महामुनिः
प्रसादं मे कुरुष्वेति पुनः पुनररिंदम
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम्
इति स्रोतांसि सर्वाणि रुद्ध्वा त्रिदशपुंगवः