Shanti Parva, Adhyaya 276, Verse 1
अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह
Containing 58 sacred Sanskrit shlokas with multi-author commentaries and translations.
अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः
अकृतव्यवसायस्य श्रेयो ब्रूहि पितामह
गुरुपूजा च सततं वृद्धानां पर्युपासनम्
श्रवणं चैव विद्यानां कूटस्थं श्रेय उच्यते
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
गालवस्य च संवादं देवर्षेर्नारदस्य च
वीतमोहक्लमं विप्रं ज्ञानतृप्तं जितेन्द्रियम्
श्रेयस्कामं जितात्मानं नारदं गालवोऽब्रवीत्
यैः कैश्चित्संमतो लोके गुणैस्तु पुरुषो नृषु
भवत्यनपगान्सर्वांस्तान्गुणाँल्लक्षयाम्यहम्
भवानेवंविधोऽस्माकं संशयं छेत्तुमर्हति
अमूढश्चिरमूढानां लोकतत्त्वमजानताम्
ज्ञाने ह्येवं प्रवृत्तिः स्यात्कार्याकार्ये विजानतः
यत्कार्यं न व्यवस्यामस्तद्भवान्वक्तुमर्हति
भगवन्नाश्रमाः सर्वे पृथगाचारदर्शिनः
इदं श्रेय इदं श्रेय इति नानाप्रधाविताः
तांस्तु विप्रस्थितान्दृष्ट्वा शास्त्रैः शास्त्राभिनन्दिनः
स्वशास्त्रैः परितुष्टांश्च श्रेयो नोपलभामहे
शास्त्रं यदि भवेदेकं व्यक्तं श्रेयो भवेत्तदा
शास्त्रैश्च बहुभिर्भूयः श्रेयो गुह्यं प्रवेशितम्
एतस्मात्कारणाच्छ्रेयः कलिलं प्रतिभाति माम्
ब्रवीतु भगवांस्तन्मे उपसन्नोऽस्म्यधीहि भोः
आश्रमास्तात चत्वारो यथासंकल्पिताः पृथक्
तान्सर्वाननुपश्य त्वं समाश्रित्यैव गालव
तेषां तेषां तथा हि त्वमाश्रमाणां ततस्ततः
नानारूपगुणोद्देशं पश्य विप्रस्थितं पृथक्
नयन्ति चैव ते सम्यगभिप्रेतमसंशयम्
ऋजु पश्यंस्तथा सम्यगाश्रमाणां परां गतिम्
यत्तु निःश्रेयसं सम्यक्तच्चैवासंशयात्मकम्
अनुग्रहं च मित्राणाममित्राणां च निग्रहम्
संग्रहं च त्रिवर्गस्य श्रेय आहुर्मनीषिणः
निवृत्तिः कर्मणः पापात्सततं पुण्यशीलता
सद्भिश्च समुदाचारः श्रेय एतदसंशयम्
मार्दवं सर्वभूतेषु व्यवहारेषु चार्जवम्
वाक्चैव मधुरा प्रोक्ता श्रेय एतदसंशयम्
देवताभ्यः पितृभ्यश्च संविभागोऽतिथिष्वपि
असंत्यागश्च भृत्यानां श्रेय एतदसंशयम्
सत्यस्य वचनं श्रेयः सत्यज्ञानं तु दुष्करम्
यद्भूतहितमत्यन्तमेतत्सत्यं ब्रवीम्यहम्
अहंकारस्य च त्यागः प्रणयस्य च निग्रहः
संतोषश्चैकचर्या च कूटस्थं श्रेय उच्यते
धर्मेण वेदाध्ययनं वेदाङ्गानां तथैव च
विद्यार्थानां च जिज्ञासा श्रेय एतदसंशयम्
शब्दरूपरसस्पर्शान्सह गन्धेन केवलान्
नात्यर्थमुपसेवेत श्रेयसोऽर्थी परंतप
नक्तंचर्या दिवास्वप्नमालस्यं पैशुनं मदम्
अतियोगमयोगं च श्रेयसोऽर्थी परित्यजेत्
कर्मोत्कर्षं न मार्गेत परेषां परिनिन्दया
स्वगुणैरेव मार्गेत विप्रकर्षं पृथग्जनात्
निर्गुणास्त्वेव भूयिष्ठमात्मसंभाविनो नराः
दोषैरन्यान्गुणवतः क्षिपन्त्यात्मगुणक्षयात्
अनुच्यमानाश्च पुनस्ते मन्यन्ते महाजनात्
गुणवत्तरमात्मानं स्वेन मानेन दर्पिताः
अब्रुवन्कस्यचिन्निन्दामात्मपूजामवर्णयन्
विपश्चिद्गुणसंपन्नः प्राप्नोत्येव महद्यशः
अब्रुवन्वाति सुरभिर्गन्धः सुमनसां शुचिः
तथैवाव्याहरन्भाति विमलो भानुरम्बरे
एवमादीनि चान्यानि परित्यक्तानि मेधया
ज्वलन्ति यशसा लोके यानि न व्याहरन्ति च
न लोके दीप्यते मूर्खः केवलात्मप्रशंसया
अपि चापिहितः श्वभ्रे कृतविद्यः प्रकाशते