Shanti Parva, Adhyaya 273, Verse 1
वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः
अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु
Containing 63 sacred Sanskrit shlokas with multi-author commentaries and translations.
वृत्रस्य तु महाराज ज्वराविष्टस्य सर्वशः
अभवन्यानि लिङ्गानि शरीरे तानि मे शृणु
ज्वलितास्योऽभवद्घोरो वैवर्ण्यं चागमत्परम्
गात्रकम्पश्च सुमहाञ्श्वासश्चाप्यभवन्महान्
रोमहर्षश्च तीव्रोऽभून्निःश्वासश्च महान्नृप
शिवा चाशिवसंकाशा तस्य वक्त्रात्सुदारुणा
निष्पपात महाघोरा स्मृतिः सा तस्य भारत
उल्काश्च ज्वलितास्तस्य दीप्ताः पार्श्वे प्रपेदिरे
गृध्रकङ्कवडाश्चैव वाचोऽमुञ्चन्सुदारुणाः
वृत्रस्योपरि संहृष्टाश्चक्रवत्परिबभ्रमुः
ततस्तं रथमास्थाय देवाप्यायितमाहवे
वज्रोद्यतकरः शक्रस्तं दैत्यं प्रत्यवैक्षत
अमानुषमथो नादं स मुमोच महासुरः
व्यजृम्भत च राजेन्द्र तीव्रज्वरसमन्वितः
अथास्य जृम्भतः शक्रस्ततो वज्रमवासृजत्
स वज्रः सुमहातेजाः कालाग्निसदृशोपमः
क्षिप्रमेव महाकायं वृत्रं दैत्यमपातयत्
ततो नादः समभवत्पुनरेव समन्ततः
वृत्रं विनिहतं दृष्ट्वा देवानां भरतर्षभ
वृत्रं तु हत्वा भगवान्दानवारिर्महायशाः
वज्रेण विष्णुयुक्तेन दिवमेव समाविशत्
अथ वृत्रस्य कौरव्य शरीरादभिनिःसृता
ब्रह्महत्या महाघोरा रौद्रा लोकभयावहा
करालदशना भीमा विकृता कृष्णपिङ्गला
प्रकीर्णमूर्धजा चैव घोरनेत्रा च भारत
कपालमालिनी चैव कृशा च भरतर्षभ
रुधिरार्द्रा च धर्मज्ञ चीरवस्त्रनिवासिनी
साभिनिष्क्रम्य राजेन्द्र तादृग्रूपा भयावहा
वज्रिणं मृगयामास तदा भरतसत्तम
कस्यचित्त्वथ कालस्य वृत्रहा कुरुनन्दन
स्वर्गायाभिमुखः प्रायाल्लोकानां हितकाम्यया
बिसान्निःसरमाणं तु दृष्ट्वा शक्रं महौजसम्
कण्ठे जग्राह देवेन्द्रं सुलग्ना चाभवत्तदा
स हि तस्मिन्समुत्पन्ने ब्रह्महत्याकृते भये
नलिन्यां बिसमध्यस्थो बभूवाब्दगणान्बहून्
अनुसृत्य तु यत्नात्स तया वै ब्रह्महत्यया
तदा गृहीतः कौरव्य निश्चेष्टः समपद्यत
तस्या व्यपोहने शक्रः परं यत्नं चकार ह
न चाशकत्तां देवेन्द्रो ब्रह्महत्यां व्यपोहितुम्
गृहीत एव तु तया देवेन्द्रो भरतर्षभ
पितामहमुपागम्य शिरसा प्रत्यपूजयत्
ज्ञात्वा गृहीतं शक्रं तु द्विजप्रवरहत्यया
ब्रह्मा संचिन्तयामास तदा भरतसत्तम
तामुवाच महाबाहो ब्रह्महत्यां पितामहः
स्वरेण मधुरेणाथ सान्त्वयन्निव भारत
मुच्यतां त्रिदशेन्द्रोऽयं मत्प्रियं कुरु भामिनि
ब्रूहि किं ते करोम्यद्य कामं कं त्वमिहेच्छसि
त्रिलोकपूजिते देवे प्रीते त्रैलोक्यकर्तरि
कृतमेवेह मन्येऽहं निवासं तु विधत्स्व मे
त्वया कृतेयं मर्यादा लोकसंरक्षणार्थिना
स्थापना वै सुमहती त्वया देव प्रवर्तिता
प्रीते तु त्वयि धर्मज्ञ सर्वलोकेश्वरे प्रभो
शक्रादपगमिष्यामि निवासं तु विधत्स्व मे
तथेति तां प्राह तदा ब्रह्महत्यां पितामहः
उपायतः स शक्रस्य ब्रह्महत्यां व्यपोहत
ततः स्वयंभुवा ध्यातस्तत्र वह्निर्महात्मना
ब्रह्माणमुपसंगम्य ततो वचनमब्रवीत्
प्राप्तोऽस्मि भगवन्देव त्वत्सकाशमरिंदम
यत्कर्तव्यं मया देव तद्भवान्वक्तुमर्हति
बहुधा विभजिष्यामि ब्रह्महत्यामिमामहम्
शक्रस्याद्य विमोक्षार्थं चतुर्भागं प्रतीच्छ मे
मम मोक्षस्य कोऽन्तो वै ब्रह्मन्ध्यायस्व वै प्रभो
एतदिच्छामि विज्ञातुं तत्त्वतो लोकपूजित