Mahabharata

Shanti Parva, Adhyaya 272

Containing 44 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 272, Verse 1

अहो धर्मिष्ठता तात वृत्रस्यामिततेजसः

यस्य विज्ञानमतुलं विष्णोर्भक्तिश्च तादृशी

Mahabharata

Shanti Parva, Adhyaya 272, Verse 2

दुर्विज्ञेयमिदं तात विष्णोरमिततेजसः

कथं वा राजशार्दूल पदं तज्ज्ञातवानसौ

Mahabharata

Shanti Parva, Adhyaya 272, Verse 3

भवता कथितं ह्येतच्छ्रद्दधे चाहमच्युत

भूयस्तु मे समुत्पन्ना बुद्धिरव्यक्तदर्शनात्

Mahabharata

Shanti Parva, Adhyaya 272, Verse 4

कथं विनिहतो वृत्रः शक्रेण भरतर्षभ

धर्मिष्ठो विष्णुभक्तश्च तत्त्वज्ञश्च पदान्वये

Mahabharata

Shanti Parva, Adhyaya 272, Verse 5

एतन्मे संशयं ब्रूहि पृच्छतो भरतर्षभ

वृत्रस्तु राजशार्दूल यथा शक्रेण निर्जितः

Mahabharata

Shanti Parva, Adhyaya 272, Verse 6

यथा चैवाभवद्युद्धं तच्चाचक्ष्व पितामह

विस्तरेण महाबाहो परं कौतूहलं हि मे

Mahabharata

Shanti Parva, Adhyaya 272, Verse 7

रथेनेन्द्रः प्रयातो वै सार्धं सुरगणैः पुरा

ददर्शाथाग्रतो वृत्रं विष्ठितं पर्वतोपमम्

Mahabharata

Shanti Parva, Adhyaya 272, Verse 8

योजनानां शतान्यूर्ध्वं पञ्चोच्छ्रितमरिंदम

शतानि विस्तरेणाथ त्रीण्येवाभ्यधिकानि तु

Mahabharata

Shanti Parva, Adhyaya 272, Verse 9

तत्प्रेक्ष्य तादृशं रूपं त्रैलोक्येनापि दुर्जयम्

वृत्रस्य देवाः संत्रस्ता न शान्तिमुपलेभिरे

Mahabharata

Shanti Parva, Adhyaya 272, Verse 10

शक्रस्य तु तदा राजन्नूरुस्तम्भो व्यजायत

भयाद्वृत्रस्य सहसा दृष्ट्वा तद्रूपमुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 272, Verse 11

ततो नादः समभवद्वादित्राणां च निस्वनः

देवासुराणां सर्वेषां तस्मिन्युद्ध उपस्थिते

Mahabharata

Shanti Parva, Adhyaya 272, Verse 12

अथ वृत्रस्य कौरव्य दृष्ट्वा शक्रमुपस्थितम्

न संभ्रमो न भीः काचिदास्था वा समजायत

Mahabharata

Shanti Parva, Adhyaya 272, Verse 13

ततः समभवद्युद्धं त्रैलोक्यस्य भयंकरम्

शक्रस्य च सुरेन्द्रस्य वृत्रस्य च महात्मनः

Mahabharata

Shanti Parva, Adhyaya 272, Verse 14

असिभिः पट्टिशैः शूलैः शक्तितोमरमुद्गरैः

शिलाभिर्विविधाभिश्च कार्मुकैश्च महास्वनैः

Mahabharata

Shanti Parva, Adhyaya 272, Verse 15

अस्त्रैश्च विविधैर्दिव्यैः पावकोल्काभिरेव च

देवासुरैस्ततः सैन्यैः सर्वमासीत्समाकुलम्

Mahabharata

Shanti Parva, Adhyaya 272, Verse 16

पितामहपुरोगाश्च सर्वे देवगणास्तथा

ऋषयश्च महाभागास्तद्युद्धं द्रष्टुमागमन्

Mahabharata

Shanti Parva, Adhyaya 272, Verse 17

विमानाग्र्यैर्महाराज सिद्धाश्च भरतर्षभ

गन्धर्वाश्च विमानाग्र्यैरप्सरोभिः समागमन्

Mahabharata

Shanti Parva, Adhyaya 272, Verse 18

ततोऽन्तरिक्षमावृत्य वृत्रो धर्मभृतां वरः

अश्मवर्षेण देवेन्द्रं पर्वतात्समवाकिरत्

Mahabharata

Shanti Parva, Adhyaya 272, Verse 19

ततो देवगणाः क्रुद्धाः सर्वतः शस्त्रवृष्टिभिः

अश्मवर्षमपोहन्त वृत्रप्रेरितमाहवे

Mahabharata

Shanti Parva, Adhyaya 272, Verse 20

वृत्रश्च कुरुशार्दूल महामायो महाबलः

मोहयामास देवेन्द्रं मायायुद्धेन सर्वतः

Mahabharata

Shanti Parva, Adhyaya 272, Verse 21

तस्य वृत्रार्दितस्याथ मोह आसीच्छतक्रतोः

रथंतरेण तं तत्र वसिष्ठः समबोधयत्

Mahabharata

Shanti Parva, Adhyaya 272, Verse 22

देवश्रेष्ठोऽसि देवेन्द्र सुरारिविनिबर्हण

त्रैलोक्यबलसंयुक्तः कस्माच्छक्र विषीदसि

Mahabharata

Shanti Parva, Adhyaya 272, Verse 23

एष ब्रह्मा च विष्णुश्च शिवश्चैव जगत्प्रभुः

सोमश्च भगवान्देवः सर्वे च परमर्षयः

Mahabharata

Shanti Parva, Adhyaya 272, Verse 24

मा कार्षीः कश्मलं शक्र कश्चिदेवेतरो यथा

आर्यां युद्धे मतिं कृत्वा जहि शत्रुं सुरेश्वर

Mahabharata

Shanti Parva, Adhyaya 272, Verse 25

एष लोकगुरुस्त्र्यक्षः सर्वलोकनमस्कृतः

निरीक्षते त्वां भगवांस्त्यज मोहं सुरेश्वर

Mahabharata

Shanti Parva, Adhyaya 272, Verse 26

एते ब्रह्मर्षयश्चैव बृहस्पतिपुरोगमाः

स्तवेन शक्र दिव्येन स्तुवन्ति त्वां जयाय वै

Mahabharata

Shanti Parva, Adhyaya 272, Verse 27

एवं संबोध्यमानस्य वसिष्ठेन महात्मना

अतीव वासवस्यासीद्बलमुत्तमतेजसः

Mahabharata

Shanti Parva, Adhyaya 272, Verse 28

ततो बुद्धिमुपागम्य भगवान्पाकशासनः

योगेन महता युक्तस्तां मायां व्यपकर्षत

Mahabharata

Shanti Parva, Adhyaya 272, Verse 29

ततोऽङ्गिरःसुतः श्रीमांस्ते चैव परमर्षयः

दृष्ट्वा वृत्रस्य विक्रान्तमुपगम्य महेश्वरम्

ऊचुर्वृत्रविनाशार्थं लोकानां हितकाम्यया

Mahabharata

Shanti Parva, Adhyaya 272, Verse 30

ततो भगवतस्तेजो ज्वरो भूत्वा जगत्पतेः

समाविशन्महारौद्रं वृत्रं दैत्यवरं तदा