Mahabharata

Shanti Parva, Adhyaya 271

Containing 69 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 271, Verse 1

नमस्तस्मै भगवते देवाय प्रभविष्णवे

यस्य पृथ्वीतलं तात साकाशं बाहुगोचरम्

Mahabharata

Shanti Parva, Adhyaya 271, Verse 2

मूर्धा यस्य त्वनन्तं च स्थानं दानवसत्तम

तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 271, Verse 3

तयोः संवदतोरेवमाजगाम महामुनिः

सनत्कुमारो धर्मात्मा संशयच्छेदनाय वै

Mahabharata

Shanti Parva, Adhyaya 271, Verse 4

स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा

निषसादासने राजन्महार्हे मुनिपुंगवः

Mahabharata

Shanti Parva, Adhyaya 271, Verse 5

तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत्

ब्रूह्यस्मै दानवेन्द्राय विष्णोर्माहात्म्यमुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 271, Verse 6

सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत्

विष्णोर्माहात्म्यसंयुक्तं दानवेन्द्राय धीमते

Mahabharata

Shanti Parva, Adhyaya 271, Verse 7

शृणु सर्वमिदं दैत्य विष्णोर्माहात्म्यमुत्तमम्

विष्णौ जगत्स्थितं सर्वमिति विद्धि परंतप

Mahabharata

Shanti Parva, Adhyaya 271, Verse 8

सृजत्येष महाबाहो भूतग्रामं चराचरम्

एष चाक्षिपते काले काले विसृजते पुनः

अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत

Mahabharata

Shanti Parva, Adhyaya 271, Verse 9

नैष दानवता शक्यस्तपसा नैव चेज्यया

संप्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते

Mahabharata

Shanti Parva, Adhyaya 271, Verse 10

बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः

निर्मलीकुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते

Mahabharata

Shanti Parva, Adhyaya 271, Verse 11

यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत्

बहुशोऽतिप्रयत्नेन महतात्मकृतेन ह

Mahabharata

Shanti Parva, Adhyaya 271, Verse 12

तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा

यत्नेन महता चैवाप्येकजातौ विशुध्यते

Mahabharata

Shanti Parva, Adhyaya 271, Verse 13

लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः

बहु यत्नेन महता दोषनिर्हरणं तथा

Mahabharata

Shanti Parva, Adhyaya 271, Verse 14

यथा चाल्पेन माल्येन वासितं तिलसर्षपम्

न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम्

Mahabharata

Shanti Parva, Adhyaya 271, Verse 15

तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः

विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति

Mahabharata

Shanti Parva, Adhyaya 271, Verse 16

एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु

बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै

Mahabharata

Shanti Parva, Adhyaya 271, Verse 17

कर्मणा स्वेन रक्तानि विरक्तानि च दानव

यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु

Mahabharata

Shanti Parva, Adhyaya 271, Verse 18

यथा च संप्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो

तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु

Mahabharata

Shanti Parva, Adhyaya 271, Verse 19

अनादिनिधनः श्रीमान्हरिर्नारायणः प्रभुः

स वै सृजति भूतानि स्थावराणि चराणि च

Mahabharata

Shanti Parva, Adhyaya 271, Verse 20

एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च

एकादशविकारात्मा जगत्पिबति रश्मिभिः

Mahabharata

Shanti Parva, Adhyaya 271, Verse 21

पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च

बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च

Mahabharata

Shanti Parva, Adhyaya 271, Verse 22

तस्य तेजोमयः सूर्यो मनश्चन्द्रमसि स्थितम्

बुद्धिर्ज्ञानगता नित्यं रसस्त्वप्सु प्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 271, Verse 23

भ्रुवोरनन्तरास्तस्य ग्रहा दानवसत्तम

नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव

Mahabharata

Shanti Parva, Adhyaya 271, Verse 24

रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम्

सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः

Mahabharata

Shanti Parva, Adhyaya 271, Verse 25

अकर्मणः फलं चैव स एव परमव्ययः

छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती

Mahabharata

Shanti Parva, Adhyaya 271, Verse 26

बह्वाश्रयो बहुमुखो धर्मो हृदि समाश्रितः

स ब्रह्मपरमो धर्मस्तपश्च सदसच्च सः

Mahabharata

Shanti Parva, Adhyaya 271, Verse 27

श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः

पितामहश्च विष्णुश्च सोऽश्विनौ स पुरंदरः

Mahabharata

Shanti Parva, Adhyaya 271, Verse 28

मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा

ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम्

एकस्य विद्धि देवस्य सर्वं जगदिदं वशे

Mahabharata

Shanti Parva, Adhyaya 271, Verse 29

नानाभूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम्

जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते

Mahabharata

Shanti Parva, Adhyaya 271, Verse 30

संहारविक्षेपसहस्रकोटी;स्तिष्ठन्ति जीवाः प्रचरन्ति चान्ये

प्रजाविसर्गस्य च पारिमाण्यं; वापीसहस्राणि बहूनि दैत्य