Mahabharata

Shanti Parva, Adhyaya 270

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 270, Verse 1

धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत

न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह

Mahabharata

Shanti Parva, Adhyaya 270, Verse 2

लोकसंभावितैर्दुःखं यत्प्राप्तं कुरुसत्तम

प्राप्य जातिं मनुष्येषु देवैरपि पितामह

Mahabharata

Shanti Parva, Adhyaya 270, Verse 3

कदा वयं करिष्यामः संन्यासं दुःखसंज्ञकम्

दुःखमेतच्छरीराणां धारणं कुरुसत्तम

Mahabharata

Shanti Parva, Adhyaya 270, Verse 4

विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः

इन्द्रियार्थैर्गुणैश्चैव अष्टाभिः प्रपितामह

Mahabharata

Shanti Parva, Adhyaya 270, Verse 5

न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः

कदा वयं भविष्यामो राज्यं हित्वा परंतप

Mahabharata

Shanti Parva, Adhyaya 270, Verse 6

नास्त्यनन्तं महाराज सर्वं संख्यानगोचरम्

पुनर्भावोऽपि संख्यातो नास्ति किंचिदिहाचलम्

Mahabharata

Shanti Parva, Adhyaya 270, Verse 7

न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः

उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ

Mahabharata

Shanti Parva, Adhyaya 270, Verse 8

ईशोऽयं सततं देही नृपते पुण्यपापयोः

तत एव समुत्थेन तमसा रुध्यतेऽपि च

Mahabharata

Shanti Parva, Adhyaya 270, Verse 9

यथाञ्जनमयो वायुः पुनर्मानःशिलं रजः

अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः

Mahabharata

Shanti Parva, Adhyaya 270, Verse 10

तथा कर्मफलैर्देही रञ्जितस्तमसावृतः

विवर्णो वर्णमाश्रित्य देहेषु परिवर्तते

Mahabharata

Shanti Parva, Adhyaya 270, Verse 11

ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः

व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम्

Mahabharata

Shanti Parva, Adhyaya 270, Verse 12

अयत्नसाध्यं मुनयो वदन्ति; ये चापि मुक्तास्त उपासितव्याः

त्वया च लोकेन च सामरेण; तस्मान्न शाम्यन्ति महर्षिसंघाः

Mahabharata

Shanti Parva, Adhyaya 270, Verse 13

अस्मिन्नर्थे पुरा गीतं शृणुष्वैकमना नृप

यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम्

Mahabharata

Shanti Parva, Adhyaya 270, Verse 14

निर्जितेनासहायेन हृतराज्येन भारत

अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम्

Mahabharata

Shanti Parva, Adhyaya 270, Verse 15

भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत्

कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव

Mahabharata

Shanti Parva, Adhyaya 270, Verse 16

सत्येन तपसा चैव विदित्वा संक्षयं ह्यहम्

न शोचामि न हृष्यामि भूतानामागतिं गतिम्

Mahabharata

Shanti Parva, Adhyaya 270, Verse 17

कालसंचोदिता जीवा मज्जन्ति नरकेऽवशाः

परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः

Mahabharata

Shanti Parva, Adhyaya 270, Verse 18

क्षपयित्वा तु तं कालं गणितं कालचोदिताः

सावशेषेण कालेन संभवन्ति पुनः पुनः

Mahabharata

Shanti Parva, Adhyaya 270, Verse 19

तिर्यग्योनिसहस्राणि गत्वा नरकमेव च

निर्गच्छन्त्यवशा जीवाः कालबन्धनबन्धनाः

Mahabharata

Shanti Parva, Adhyaya 270, Verse 20

एवं संसरमाणानि जीवान्यहमदृष्टवान्

यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम्

Mahabharata

Shanti Parva, Adhyaya 270, Verse 21

तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च

सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च

Mahabharata

Shanti Parva, Adhyaya 270, Verse 22

कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते

गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा

Mahabharata

Shanti Parva, Adhyaya 270, Verse 23

कालसंख्यानसंख्यातं सृष्टिस्थितिपरायणम्

तं भाषमाणं भगवानुशना प्रत्यभाषत

भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाषसे

Mahabharata

Shanti Parva, Adhyaya 270, Verse 24

प्रत्यक्षमेतद्भवतस्तथान्येषां मनीषिणाम्

मया यज्जयलुब्धेन पुरा तप्तं महत्तपः

Mahabharata

Shanti Parva, Adhyaya 270, Verse 25

गन्धानादाय भूतानां रसांश्च विविधानपि

अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा

Mahabharata

Shanti Parva, Adhyaya 270, Verse 26

ज्वालामालापरिक्षिप्तो वैहायसचरस्तथा

अजेयः सर्वभूतानामासं नित्यमपेतभीः

Mahabharata

Shanti Parva, Adhyaya 270, Verse 27

ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः

धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम्

Mahabharata

Shanti Parva, Adhyaya 270, Verse 28

युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना

ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः

Mahabharata

Shanti Parva, Adhyaya 270, Verse 29

वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः

मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः

Mahabharata

Shanti Parva, Adhyaya 270, Verse 30

नूनं तु तस्य तपसः सावशेषं ममास्ति वै

यदहं प्रष्टुमिच्छामि भवन्तं कर्मणः फलम्