Shanti Parva, Adhyaya 269, Verse 1
किंशीलः किंसमाचारः किंविद्यः किंपरायणः
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
किंशीलः किंसमाचारः किंविद्यः किंपरायणः
प्राप्नोति ब्रह्मणः स्थानं यत्परं प्रकृतेर्ध्रुवम्
मोक्षधर्मेषु निरतो लघ्वाहारो जितेन्द्रियः
प्राप्नोति परमं स्थानं यत्परं प्रकृतेर्ध्रुवम्
स्वगृहादभिनिःसृत्य लाभालाभे समो मुनिः
समुपोढेषु कामेषु निरपेक्षः परिव्रजेत्
न चक्षुषा न मनसा न वाचा दूषयेदपि
न प्रत्यक्षं परोक्षं वा दूषणं व्याहरेत्क्वचित्
न हिंस्यात्सर्वभूतानि मैत्रायणगतिश्चरेत्
नेदं जीवितमासाद्य वैरं कुर्वीत केनचित्
अतिवादांस्तितिक्षेत नाभिमन्येत्कथंचन
क्रोध्यमानः प्रियं ब्रूयादाक्रुष्टः कुशलं वदेत्
प्रदक्षिणं प्रसव्यं च ग्राममध्ये न चाचरेत्
भैक्षचर्यामनापन्नो न गच्छेत्पूर्वकेतितः
अवकीर्णः सुगुप्तश्च न वाचा ह्यप्रियं वदेत्
मृदुः स्यादप्रतिक्रूरो विस्रब्धः स्यादरोषणः
विधूमे न्यस्तमुसले व्यङ्गारे भुक्तवज्जने
अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः
अनुयात्रिकमर्थस्य मात्रालाभेष्वनादृतः
अलाभे न विहन्येत लाभश्चैनं न हर्षयेत्
लाभं साधारणं नेच्छेन्न भुञ्जीताभिपूजितः
अभिपूजितलाभं हि जुगुप्सेतैव तादृशः
न चान्नदोषान्निन्देत न गुणानभिपूजयेत्
शय्यासने विविक्ते च नित्यमेवाभिपूजयेत्
शून्यागारं वृक्षमूलमरण्यमथ वा गुहाम्
अज्ञातचर्यां गत्वान्यां ततोऽन्यत्रैव संविशेत्
अनुरोधविरोधाभ्यां समः स्यादचलो ध्रुवः
सुकृतं दुष्कृतं चोभे नानुरुध्येत कर्मणि
वाचो वेगं मनसः क्रोधवेगं; विवित्सावेगमुदरोपस्थवेगम्
एतान्वेगान्विनयेद्वै तपस्वी; निन्दा चास्य हृदयं नोपहन्यात्
मध्यस्थ एव तिष्ठेत प्रशंसानिन्दयोः समः
एतत्पवित्रं परमं परिव्राजक आश्रमे
महात्मा सुव्रतो दान्तः सर्वत्रैवानपाश्रितः
अपूर्वचारकः सौम्यो अनिकेतः समाहितः
वानप्रस्थगृहस्थाभ्यां न संसृज्येत कर्हिचित्
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत्
विजानतां मोक्ष एष श्रमः स्यादविजानताम्
मोक्षयानमिदं कृत्स्नं विदुषां हारितोऽब्रवीत्
अभयं सर्वभूतेभ्यो दत्त्वा यः प्रव्रजेद्गृहात्
लोकास्तेजोमयास्तस्य तथानन्त्याय कल्पते