Mahabharata

Shanti Parva, Adhyaya 268

Containing 14 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 268, Verse 1

भ्रातरः पितरः पुत्रा ज्ञातयः सुहृदस्तथा

अर्थहेतोर्हताः क्रूरैरस्माभिः पापबुद्धिभिः

Mahabharata

Shanti Parva, Adhyaya 268, Verse 2

येयमर्थोद्भवा तृष्णा कथमेतां पितामह

निवर्तयेम पापं हि तृष्णया कारिता वयम्

Mahabharata

Shanti Parva, Adhyaya 268, Verse 3

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

गीतं विदेहराजेन माण्डव्यायानुपृच्छते

Mahabharata

Shanti Parva, Adhyaya 268, Verse 4

सुसुखं बत जीवामि यस्य मे नास्ति किंचन

मिथिलायां प्रदीप्तायां न मे दह्यति किंचन

Mahabharata

Shanti Parva, Adhyaya 268, Verse 5

अर्थाः खलु समृद्धा हि बाढं दुःखं विजानताम्

असमृद्धास्त्वपि सदा मोहयन्त्यविचक्षणान्

Mahabharata

Shanti Parva, Adhyaya 268, Verse 6

यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम्

तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम्

Mahabharata

Shanti Parva, Adhyaya 268, Verse 7

यथैव शृङ्गं गोः काले वर्धमानस्य वर्धते

तथैव तृष्णा वित्तेन वर्धमानेन वर्धते

Mahabharata

Shanti Parva, Adhyaya 268, Verse 8

किंचिदेव ममत्वेन यदा भवति कल्पितम्

तदेव परितापाय नाशे संपद्यते पुनः

Mahabharata

Shanti Parva, Adhyaya 268, Verse 9

न कामाननुरुध्येत दुःखं कामेषु वै रतिः

प्राप्यार्थमुपयुञ्जीत धर्मे कामं विवर्जयेत्

Mahabharata

Shanti Parva, Adhyaya 268, Verse 10

विद्वान्सर्वेषु भूतेषु व्याघ्रमांसोपमो भवेत्

कृतकृत्यो विशुद्धात्मा सर्वं त्यजति वै सह

Mahabharata

Shanti Parva, Adhyaya 268, Verse 11

उभे सत्यानृते त्यक्त्वा शोकानन्दौ प्रियाप्रिये

भयाभये च संत्यज्य संप्रशान्तो निरामयः

Mahabharata

Shanti Parva, Adhyaya 268, Verse 12

या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः

योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम्

Mahabharata

Shanti Parva, Adhyaya 268, Verse 13

चारित्रमात्मनः पश्यंश्चन्द्रशुद्धमनामयम्

धर्मात्मा लभते कीर्तिं प्रेत्य चेह यथासुखम्

Mahabharata

Shanti Parva, Adhyaya 268, Verse 14

राज्ञस्तद्वचनं श्रुत्वा प्रीतिमानभवद्द्विजः

पूजयित्वा च तद्वाक्यं माण्डव्यो मोक्षमाश्रितः