Shanti Parva, Adhyaya 267, Verse 1
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं देवलस्यासितस्य च
Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.
अत्रैवोदाहरन्तीममितिहासं पुरातनम्
नारदस्य च संवादं देवलस्यासितस्य च
आसीनं देवलं वृद्धं बुद्ध्वा बुद्धिमतां वरः
नारदः परिपप्रच्छ भूतानां प्रभवाप्ययम्
कुतः सृष्टमिदं विश्वं ब्रह्मन्स्थावरजङ्गमम्
प्रलये च कमभ्येति तद्भवान्प्रब्रवीतु मे
येभ्यः सृजति भूतानि कालो भावप्रचोदितः
महाभूतानि पञ्चेति तान्याहुर्भूतचिन्तकाः
तेभ्यः सृजति भूतानि काल आत्मप्रचोदितः
एतेभ्यो यः परं ब्रूयादसद्ब्रूयादसंशयम्
विद्धि नारद पञ्चैताञ्शाश्वतानचलान्ध्रुवान्
महतस्तेजसो राशीन्कालषष्ठान्स्वभावतः
आपश्चैवान्तरिक्षं च पृथिवी वायुपावकौ
असिद्धिः परमेतेभ्यो भूतेभ्यो मुक्तसंशयम्
नोपपत्त्या न वा युक्त्या त्वसद्ब्रूयादसंशयम्
वेत्थ तानभिनिर्वृत्तान्षडेते यस्य राशयः
पञ्चैव तानि कालश्च भावाभावौ च केवलौ
अष्टौ भूतानि भूतानां शाश्वतानि भवाप्ययौ
अभावाद्भावितेष्वेव तेभ्यश्च प्रभवन्त्यपि
विनष्टोऽपि च तान्येव जन्तुर्भवति पञ्चधा
तस्य भूमिमयो देहः श्रोत्रमाकाशसंभवम्
सूर्यश्चक्षुरसुर्वायुरद्भ्यस्तु खलु शोणितम्
चक्षुषी नासिकाकर्णौ त्वग्जिह्वेति च पञ्चमी
इन्द्रियाणीन्द्रियार्थानां ज्ञानानि कवयो विदुः
दर्शनं श्रवणं घ्राणं स्पर्शनं रसनं तथा
उपपत्त्या गुणान्विद्धि पञ्च पञ्चसु पञ्चधा
रूपं गन्धो रसः स्पर्शः शब्दश्चैवाथ तद्गुणाः
इन्द्रियैरुपलभ्यन्ते पञ्चधा पञ्च पञ्चभिः
रूपं गन्धं रसं स्पर्शं शब्दं चैतांस्तु तद्गुणान्
इन्द्रियाणि न बुध्यन्ते क्षेत्रज्ञस्तैस्तु बुध्यते
चित्तमिन्द्रियसंघातात्परं तस्मात्परं मनः
मनसस्तु परा बुद्धिः क्षेत्रज्ञो बुद्धितः परः
पूर्वं चेतयते जन्तुरिन्द्रियैर्विषयान्पृथक्
विचार्य मनसा पश्चादथ बुद्ध्या व्यवस्यति
इन्द्रियैरुपलब्धार्थान्सर्वान्यस्त्वध्यवस्यति
चित्तमिन्द्रियसंघातं मनो बुद्धिं तथाष्टमीम्
अष्टौ ज्ञानेन्द्रियाण्याहुरेतान्यध्यात्मचिन्तकाः
पाणिपादं च पायुश्च मेहनं पञ्चमं मुखम्
इति संशब्द्यमानानि शृणु कर्मेन्द्रियाण्यपि
जल्पनाभ्यवहारार्थं मुखमिन्द्रियमुच्यते
गमनेन्द्रियं तथा पादौ कर्मणः करणे करौ
पायूपस्थौ विसर्गार्थमिन्द्रिये तुल्यकर्मणी
विसर्गे च पुरीषस्य विसर्गे चाभिकामिके
बलं षष्ठं षडेतानि वाचा सम्यग्यथागमम्
ज्ञानचेष्टेन्द्रियगुणाः सर्वे संशब्दिता मया
इन्द्रियाणां स्वकर्मभ्यः श्रमादुपरमो यदा
भवतीन्द्रियसंन्यासादथ स्वपिति वै नरः
इन्द्रियाणां व्युपरमे मनोऽनुपरतं यदि
सेवते विषयानेव तद्विद्यात्स्वप्नदर्शनम्
सात्त्विकाश्चैव ये भावास्तथा राजसतामसाः
कर्मयुक्तान्प्रशंसन्ति सात्त्विकानितरांस्तथा
आनन्दः कर्मणां सिद्धिः प्रतिपत्तिः परा गतिः
सात्त्विकस्य निमित्तानि भावान्संश्रयते स्मृतिः
जन्तुष्वेकतमेष्वेवं भावा ये विधिमास्थिताः
भावयोरीप्सितं नित्यं प्रत्यक्षगमनं द्वयोः
इन्द्रियाणि च भावाश्च गुणाः सप्तदश स्मृताः
तेषामष्टादशो देही यः शरीरे स शाश्वतः
अथ वा सशरीरास्ते गुणाः सर्वे शरीरिणाम्
संश्रितास्तद्वियोगे हि सशरीरा न सन्ति ते
अथ वा संनिपातोऽयं शरीरं पाञ्चभौतिकम्
एकश्च दश चाष्टौ च गुणाः सह शरीरिणाम्
ऊष्मणा सह विंशो वा संघातः पाञ्चभौतिकः