Mahabharata

Shanti Parva, Adhyaya 266

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 266, Verse 1

मोक्षः पितामहेनोक्त उपायान्नानुपायतः

तमुपायं यथान्यायं श्रोतुमिच्छामि भारत

Mahabharata

Shanti Parva, Adhyaya 266, Verse 2

त्वय्येवैतन्महाप्राज्ञ युक्तं निपुणदर्शनम्

यदुपायेन सर्वार्थान्नित्यं मृगयसेऽनघ

Mahabharata

Shanti Parva, Adhyaya 266, Verse 3

करणे घटस्य या बुद्धिर्घटोत्पत्तौ न सानघ

एवं धर्माभ्युपायेषु नान्यद्धर्मेषु कारणम्

Mahabharata

Shanti Parva, Adhyaya 266, Verse 4

पूर्वे समुद्रे यः पन्था न स गच्छति पश्चिमम्

एकः पन्था हि मोक्षस्य तन्मे विस्तरतः शृणु

Mahabharata

Shanti Parva, Adhyaya 266, Verse 5

क्षमया क्रोधमुच्छिन्द्यात्कामं संकल्पवर्जनात्

सत्त्वसंसेवनाद्धीरो निद्रामुच्छेतुमर्हति

Mahabharata

Shanti Parva, Adhyaya 266, Verse 6

अप्रमादाद्भयं रक्षेच्छ्वासं क्षेत्रज्ञशीलनात्

इच्छां द्वेषं च कामं च धैर्येण विनिवर्तयेत्

Mahabharata

Shanti Parva, Adhyaya 266, Verse 7

भ्रमं प्रमोहमावर्तमभ्यासाद्विनिवर्तयेत्

निद्रां च प्रतिभां चैव ज्ञानाभ्यासेन तत्त्ववित्

Mahabharata

Shanti Parva, Adhyaya 266, Verse 8

उपद्रवांस्तथा रोगान्हितजीर्णमिताशनात्

लोभं मोहं च संतोषाद्विषयांस्तत्त्वदर्शनात्

Mahabharata

Shanti Parva, Adhyaya 266, Verse 9

अनुक्रोशादधर्मं च जयेद्धर्ममुपेक्षया

आयत्या च जयेदाशामर्थं सङ्गविवर्जनात्

Mahabharata

Shanti Parva, Adhyaya 266, Verse 10

अनित्यत्वेन च स्नेहं क्षुधं योगेन पण्डितः

कारुण्येनात्मनो मानं तृष्णां च परितोषतः

Mahabharata

Shanti Parva, Adhyaya 266, Verse 11

उत्थानेन जयेत्तन्द्रीं वितर्कं निश्चयाज्जयेत्

मौनेन बहुभाष्यं च शौर्येण च भयं जयेत्

Mahabharata

Shanti Parva, Adhyaya 266, Verse 12

यच्छेद्वाङ्मनसी बुद्ध्या तां यच्छेज्ज्ञानचक्षुषा

ज्ञानमात्मा महान्यच्छेत्तं यच्छेच्छान्तिरात्मनः

Mahabharata

Shanti Parva, Adhyaya 266, Verse 13

तदेतदुपशान्तेन बोद्धव्यं शुचिकर्मणा

योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः

Mahabharata

Shanti Parva, Adhyaya 266, Verse 14

कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्

परित्यज्य निषेवेत तथेमान्योगसाधनान्

Mahabharata

Shanti Parva, Adhyaya 266, Verse 15

ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा

शौचमाहारतः शुद्धिरिन्द्रियाणां च संयमः

Mahabharata

Shanti Parva, Adhyaya 266, Verse 16

एतैर्विवर्धते तेजः पाप्मानमपहन्ति च

सिध्यन्ति चास्य संकल्पा विज्ञानं च प्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 266, Verse 17

धूतपापः स तेजस्वी लघ्वाहारो जितेन्द्रियः

कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्

Mahabharata

Shanti Parva, Adhyaya 266, Verse 18

अमूढत्वमसङ्गित्वं कामक्रोधविवर्जनम्

अदैन्यमनुदीर्णत्वमनुद्वेगो व्यवस्थितिः

Mahabharata

Shanti Parva, Adhyaya 266, Verse 19

एष मार्गो हि मोक्षस्य प्रसन्नो विमलः शुचिः

तथा वाक्कायमनसां नियमः कामतोऽन्यथा