Mahabharata

Shanti Parva, Adhyaya 265

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 265, Verse 1

कथं भवति पापात्मा कथं धर्मं करोति वा

केन निर्वेदमादत्ते मोक्षं वा केन गच्छति

Mahabharata

Shanti Parva, Adhyaya 265, Verse 2

विदिताः सर्वधर्मास्ते स्थित्यर्थमनुपृच्छसि

शृणु मोक्षं सनिर्वेदं पापं धर्मं च मूलतः

Mahabharata

Shanti Parva, Adhyaya 265, Verse 3

विज्ञानार्थं हि पञ्चानामिच्छा पूर्वं प्रवर्तते

प्राप्य ताञ्जायते कामो द्वेषो वा भरतर्षभ

Mahabharata

Shanti Parva, Adhyaya 265, Verse 4

ततस्तदर्थं यतते कर्म चारभते पुनः

इष्टानां रूपगन्धानामभ्यासं च चिकीर्षति

Mahabharata

Shanti Parva, Adhyaya 265, Verse 5

ततो रागः प्रभवति द्वेषश्च तदनन्तरम्

ततो लोभः प्रभवति मोहश्च तदनन्तरम्

Mahabharata

Shanti Parva, Adhyaya 265, Verse 6

लोभमोहाभिभूतस्य रागद्वेषान्वितस्य च

न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च

Mahabharata

Shanti Parva, Adhyaya 265, Verse 7

व्याजेन चरतो धर्ममर्थव्याजोऽपि रोचते

व्याजेन सिध्यमानेषु धनेषु कुरुनन्दन

Mahabharata

Shanti Parva, Adhyaya 265, Verse 8

तत्रैव कुरुते बुद्धिं ततः पापं चिकीर्षति

सुहृद्भिर्वार्यमाणोऽपि पण्डितैश्चापि भारत

Mahabharata

Shanti Parva, Adhyaya 265, Verse 9

उत्तरं न्यायसंबद्धं ब्रवीति विधियोजितम्

अधर्मस्त्रिविधस्तस्य वर्धते रागमोहजः

Mahabharata

Shanti Parva, Adhyaya 265, Verse 10

पापं चिन्तयते चैव प्रब्रवीति करोति च

तस्याधर्मप्रवृत्तस्य दोषान्पश्यन्ति साधवः

Mahabharata

Shanti Parva, Adhyaya 265, Verse 11

एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः

स नेह सुखमाप्नोति कुत एव परत्र वै

Mahabharata

Shanti Parva, Adhyaya 265, Verse 12

एवं भवति पापात्मा धर्मात्मानं तु मे शृणु

यथा कुशलधर्मा स कुशलं प्रतिपद्यते

Mahabharata

Shanti Parva, Adhyaya 265, Verse 13

य एतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति

कुशलः सुखदुःखानां साधूंश्चाप्युपसेवते

Mahabharata

Shanti Parva, Adhyaya 265, Verse 14

तस्य साधुसमाचारादभ्यासाच्चैव वर्धते

प्रज्ञा धर्मे च रमते धर्मं चैवोपजीवति

Mahabharata

Shanti Parva, Adhyaya 265, Verse 15

सोऽथ धर्मादवाप्तेषु धनेषु कुरुते मनः

तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै

Mahabharata

Shanti Parva, Adhyaya 265, Verse 16

धर्मात्मा भवति ह्येवं मित्रं च लभते शुभम्

स मित्रधनलाभात्तु प्रेत्य चेह च नन्दति

Mahabharata

Shanti Parva, Adhyaya 265, Verse 17

शब्दे स्पर्शे तथा रूपे रसे गन्धे च भारत

प्रभुत्वं लभते जन्तुर्धर्मस्यैतत्फलं विदुः

Mahabharata

Shanti Parva, Adhyaya 265, Verse 18

स धर्मस्य फलं लब्ध्वा न तृप्यति युधिष्ठिर

अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा

Mahabharata

Shanti Parva, Adhyaya 265, Verse 19

प्रज्ञाचक्षुर्यदा कामे दोषमेवानुपश्यति

विरज्यते तदा कामान्न च धर्मं विमुञ्चति

Mahabharata

Shanti Parva, Adhyaya 265, Verse 20

सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम्

ततो मोक्षाय यतते नानुपायादुपायतः

Mahabharata

Shanti Parva, Adhyaya 265, Verse 21

शनैर्निर्वेदमादत्ते पापं कर्म जहाति च

धर्मात्मा चैव भवति मोक्षं च लभते परम्

Mahabharata

Shanti Parva, Adhyaya 265, Verse 22

एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि

पापं धर्मं तथा मोक्षं निर्वेदं चैव भारत

Mahabharata

Shanti Parva, Adhyaya 265, Verse 23

तस्माद्धर्मे प्रवर्तेथाः सर्वावस्थं युधिष्ठिर

धर्मे स्थितानां कौन्तेय सिद्धिर्भवति शाश्वती