Mahabharata

Shanti Parva, Adhyaya 264

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 264, Verse 1

बहूनां यज्ञतपसामेकार्थानां पितामह

धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः

Mahabharata

Shanti Parva, Adhyaya 264, Verse 2

अत्र ते वर्तयिष्यामि नारदेनानुकीर्तितम्

उञ्छवृत्तेः पुरावृत्तं यज्ञार्थे ब्राह्मणस्य ह

Mahabharata

Shanti Parva, Adhyaya 264, Verse 3

राष्ट्रे धर्मोत्तरे श्रेष्ठे विदर्भेष्वभवद्द्विजः

उञ्छवृत्तिरृषिः कश्चिद्यज्ञे यज्ञं समादधे

Mahabharata

Shanti Parva, Adhyaya 264, Verse 4

श्यामाकमशनं तत्र सूर्यपत्नी सुवर्चला

तिक्तं च विरसं शाकं तपसा स्वादुतां गतम्

Mahabharata

Shanti Parva, Adhyaya 264, Verse 5

उपगम्य वने पृथ्वीं सर्वभूतविहिंसया

अपि मूलफलैरिज्यो यज्ञः स्वर्ग्यः परंतप

Mahabharata

Shanti Parva, Adhyaya 264, Verse 6

तस्य भार्या व्रतकृशा शुचिः पुष्करचारिणी

यज्ञपत्नीत्वमानीता सत्येनानुविधीयते

सा तु शापपरित्रस्ता न स्वभावानुवर्तिनी

Mahabharata

Shanti Parva, Adhyaya 264, Verse 7

मयूरजीर्णपर्णानां वस्त्रं तस्याश्च पर्णिनाम्

अकामायाः कृतं तत्र यज्ञे होत्रानुमार्गतः

Mahabharata

Shanti Parva, Adhyaya 264, Verse 8

शुक्रस्य पुनराजातिरपध्यानादधर्मवित्

तस्मिन्वने समीपस्थो मृगोऽभूत्सहचारिकः

वचोभिरब्रवीत्सत्यं त्वया दुष्कृतकं कृतम्

Mahabharata

Shanti Parva, Adhyaya 264, Verse 9

यदि मन्त्राङ्गहीनोऽयं यज्ञो भवति वैकृतः

मां भोः प्रक्षिप होत्रे त्वं गच्छ स्वर्गमतन्द्रितः

Mahabharata

Shanti Parva, Adhyaya 264, Verse 10

ततस्तु यज्ञे सावित्री साक्षात्तं संन्यमन्त्रयत्

निमन्त्रयन्ती प्रत्युक्ता न हन्यां सहवासिनम्

Mahabharata

Shanti Parva, Adhyaya 264, Verse 11

एवमुक्ता निवृत्ता सा प्रविष्टा यज्ञपावकम्

किं नु दुश्चरितं यज्ञे दिदृक्षुः सा रसातलम्

Mahabharata

Shanti Parva, Adhyaya 264, Verse 12

सा तु बद्धाञ्जलिं सत्यमयाचद्धरिणं पुनः

सत्येन संपरिष्वज्य संदिष्टो गम्यतामिति

Mahabharata

Shanti Parva, Adhyaya 264, Verse 13

ततः स हरिणो गत्वा पदान्यष्टौ न्यवर्तत

साधु हिंसय मां सत्य हतो यास्यामि सद्गतिम्

Mahabharata

Shanti Parva, Adhyaya 264, Verse 14

पश्य ह्यप्सरसो दिव्या मया दत्तेन चक्षुषा

विमानानि विचित्राणि गन्धर्वाणां महात्मनाम्

Mahabharata

Shanti Parva, Adhyaya 264, Verse 15

ततः सुरुचिरं दृष्ट्वा स्पृहालग्नेन चक्षुषा

मृगमालोक्य हिंसायां स्वर्गवासं समर्थयत्

Mahabharata

Shanti Parva, Adhyaya 264, Verse 16

स तु धर्मो मृगो भूत्वा बहुवर्षोषितो वने

तस्य निष्कृतिमाधत्त न ह्यसौ यज्ञसंविधिः

Mahabharata

Shanti Parva, Adhyaya 264, Verse 17

तस्य तेन तु भावेन मृगहिंसात्मनस्तदा

तपो महत्समुच्छिन्नं तस्माद्धिंसा न यज्ञिया

Mahabharata

Shanti Parva, Adhyaya 264, Verse 18

ततस्तं भगवान्धर्मो यज्ञं याजयत स्वयम्

समाधानं च भार्याया लेभे स तपसा परम्

Mahabharata

Shanti Parva, Adhyaya 264, Verse 19

अहिंसा सकलो धर्मो हिंसा यज्ञेऽसमाहिता

सत्यं तेऽहं प्रवक्ष्यामि यो धर्मः सत्यवादिनाम्