Shanti Parva, Adhyaya 262, Verse 1
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
Containing 45 sacred Sanskrit shlokas with multi-author commentaries and translations.
वेदाः प्रमाणं लोकानां न वेदाः पृष्ठतःकृताः
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परं च यत्
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति
शरीरमेतत्कुरुते यद्वेदे कुरुते तनुम्
कृतशुद्धशरीरो हि पात्रं भवति ब्राह्मणः
आनन्त्यमनुयुङ्क्ते यः कर्मणा तद्ब्रवीमि ते
निरागममनैतिह्यं प्रत्यक्षं लोकसाक्षिकम्
धर्म इत्येव ये यज्ञान्वितन्वन्ति निराशिषः
उत्पन्नत्यागिनोऽलुब्धाः कृपासूयाविवर्जिताः
धनानामेष वै पन्थास्तीर्थेषु प्रतिपादनम्
अनाश्रिताः पापकृत्याः कदाचित्कर्मयोनितः
मनःसंकल्पसंसिद्धा विशुद्धज्ञाननिश्चयाः
अक्रुध्यन्तोऽनसूयन्तो निरहंकारमत्सराः
ज्ञाननिष्ठास्त्रिशुक्लाश्च सर्वभूतहिते रताः
आसन्गृहस्था भूयिष्ठमव्युत्क्रान्ताः स्वकर्मसु
राजानश्च तथा युक्ता ब्राह्मणाश्च यथाविधि
समा ह्यार्जवसंपन्नाः संतुष्टा ज्ञाननिश्चयाः
प्रत्यक्षधर्माः शुचयः श्रद्दधानाः परावरे
पुरस्ताद्भावितात्मानो यथावच्चरितव्रताः
चरन्ति धर्मं कृच्छ्रेऽपि दुर्गे चैवाधिसंहताः
संहत्य धर्मं चरतां पुरासीत्सुखमेव तत्
तेषां नासीद्विधातव्यं प्रायश्चित्तं कदाचन
सत्यं हि धर्ममास्थाय दुराधर्षतमा मताः
न मात्रामनुरुध्यन्ते न धर्मच्छलमन्ततः
य एव प्रथमः कल्पस्तमेवाभ्याचरन्सह
अस्यां स्थितौ स्थितानां हि प्रायश्चित्तं न विद्यते
दुर्बलात्मन उत्पन्नं प्रायश्चित्तमिति श्रुतिः
यत एवंविधा विप्राः पुराणा यज्ञवाहनाः
त्रैविद्यवृद्धाः शुचयो वृत्तवन्तो यशस्विनः
यजन्तोऽहरहर्यज्ञैर्निराशीर्बन्धना बुधाः
तेषां यज्ञाश्च वेदाश्च कर्माणि च यथागमम्
आगमाश्च यथाकालं संकल्पाश्च यथाव्रतम्
अपेतकामक्रोधानां प्रकृत्या संशितात्मनाम्
ऋजूनां शमनित्यानां स्थितानां स्वेषु कर्मसु
सर्वमानन्त्यमेवासीदिति नः शाश्वती श्रुतिः
तेषामदीनसत्त्वानां दुश्चराचारकर्मणाम्
स्वकर्मभिः संवृतानां तपो घोरत्वमागतम्
तं सदाचारमाश्चर्यं पुराणं शाश्वतं ध्रुवम्
अशक्नुवद्भिश्चरितुं किंचिद्धर्मेषु सूचितम्
निरापद्धर्म आचारस्त्वप्रमादोऽपराभवः
सर्ववर्णेषु यत्तेषु नासीत्कश्चिद्व्यतिक्रमः
धर्ममेकं चतुष्पादमाश्रितास्ते नरर्षभाः
तं सन्तो विधिवत्प्राप्य गच्छन्ति परमां गतिम्
गृहेभ्य एव निष्क्रम्य वनमन्ये समाश्रिताः
गृहमेवाभिसंश्रित्य ततोऽन्ये ब्रह्मचारिणः
धर्ममेतं चतुष्पादमाश्रमं ब्राह्मणा विदुः
आनन्त्यं ब्रह्मणः स्थानं ब्राह्मणा नाम निश्चयः
अत एवंविधा विप्राः पुराणा धर्मचारिणः
त एते दिवि दृश्यन्ते ज्योतिर्भूता द्विजातयः
नक्षत्राणीव धिष्ण्येषु बहवस्तारकागणाः
आनन्त्यमुपसंप्राप्ताः संतोषादिति वैदिकम्
यद्यागच्छन्ति संसारं पुनर्योनिषु तादृशाः
न लिप्यन्ते पापकृत्यैः कदाचित्कर्मयोनितः
एवं युक्तो ब्राह्मणः स्यादन्यो ब्राह्मणको भवेत्
कर्मैव पुरुषस्याह शुभं वा यदि वाशुभम्
एवं पक्वकषायाणामानन्त्येन श्रुतेन च
सर्वमानन्त्यमेवासीदेवं नः शाश्वती श्रुतिः
तेषामपेततृष्णानां निर्णिक्तानां शुभात्मनाम्
चतुर्थ औपनिषदो धर्मः साधारणः स्मृतः
स सिद्धैः साध्यते नित्यं ब्राह्मणैर्नियतात्मभिः
संतोषमूलस्त्यागात्मा ज्ञानाधिष्ठानमुच्यते
अपवर्गगतिर्नित्यो यतिधर्मः सनातनः
साधारणः केवलो वा यथाबलमुपास्यते
गच्छतो गच्छतः क्षेमं दुर्बलोऽत्रावसीदति
ब्रह्मणः पदमन्विच्छन्संसारान्मुच्यते शुचिः