Mahabharata

Shanti Parva, Adhyaya 261

Containing 61 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 261, Verse 1

एतावदनुपश्यन्तो यतयो यान्ति मार्गगाः

नैषां सर्वेषु लोकेषु कश्चिदस्ति व्यतिक्रमः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 2

निर्द्वंद्वा निर्नमस्कारा निराशीर्बन्धना बुधाः

विमुक्ताः सर्वपापेभ्यश्चरन्ति शुचयोऽमलाः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 3

अपवर्गेऽथ संत्यागे बुद्धौ च कृतनिश्चयाः

ब्रह्मिष्ठा ब्रह्मभूताश्च ब्रह्मण्येव कृतालयाः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 4

विशोका नष्टरजसस्तेषां लोकाः सनातनाः

तेषां गतिं परां प्राप्य गार्हस्थ्ये किं प्रयोजनम्

Mahabharata

Shanti Parva, Adhyaya 261, Verse 5

यद्येषा परमा निष्ठा यद्येषा परमा गतिः

गृहस्थानव्यपाश्रित्य नाश्रमोऽन्यः प्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 261, Verse 6

यथा मातरमाश्रित्य सर्वे जीवन्ति जन्तवः

एवं गृहस्थमाश्रित्य वर्तन्त इतरेऽऽश्रमाः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 7

गृहस्थ एव यजते गृहस्थस्तप्यते तपः

गार्हस्थ्यमस्य धर्मस्य मूलं यत्किंचिदेजते

Mahabharata

Shanti Parva, Adhyaya 261, Verse 8

प्रजनाद्ध्यभिनिर्वृत्ताः सर्वे प्राणभृतो मुने

प्रजनं चाप्युतान्यत्र न कथंचन विद्यते

Mahabharata

Shanti Parva, Adhyaya 261, Verse 9

यास्ताः स्युर्बहिरोषध्यो बह्वरण्यास्तथा द्विज

ओषधिभ्यो बहिर्यस्मात्प्राणी कश्चिन्न विद्यते

कस्यैषा वाग्भवेत्सत्या मोक्षो नास्ति गृहादिति

Mahabharata

Shanti Parva, Adhyaya 261, Verse 10

अश्रद्दधानैरप्राज्ञैः सूक्ष्मदर्शनवर्जितैः

निराशैरलसैः श्रान्तैस्तप्यमानैः स्वकर्मभिः

श्रमस्योपरमो दृष्टः प्रव्रज्या नाम पण्डितैः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 11

त्रैलोक्यस्यैव हेतुर्हि मर्यादा शाश्वती ध्रुवा

ब्राह्मणो नाम भगवाञ्जन्मप्रभृति पूज्यते

Mahabharata

Shanti Parva, Adhyaya 261, Verse 12

प्राग्गर्भाधानान्मन्त्रा हि प्रवर्तन्ते द्विजातिषु

अविश्रम्भेषु वर्तन्ते विश्रम्भेष्वप्यसंशयम्

Mahabharata

Shanti Parva, Adhyaya 261, Verse 13

दाहः पुनः संश्रयणे संस्थिते पात्रभोजनम्

दानं गवां पशूनां वा पिण्डानां चाप्सु मज्जनम्

Mahabharata

Shanti Parva, Adhyaya 261, Verse 14

अर्चिष्मन्तो बर्हिषदः क्रव्यादाः पितरः स्मृताः

मृतस्याप्यनुमन्यन्ते मन्त्रा मन्त्राश्च कारणम्

Mahabharata

Shanti Parva, Adhyaya 261, Verse 15

एवं क्रोशत्सु वेदेषु कुतो मोक्षोऽस्ति कस्यचित्

ऋणवन्तो यदा मर्त्याः पितृदेवद्विजातिषु

Mahabharata

Shanti Parva, Adhyaya 261, Verse 16

श्रिया विहीनैरलसैः पण्डितैरपलापितम्

वेदवादापरिज्ञानं सत्याभासमिवानृतम्

Mahabharata

Shanti Parva, Adhyaya 261, Verse 17

न वै पापैर्ह्रियते कृष्यते वा; यो ब्राह्मणो यजते वेदशास्त्रैः

ऊर्ध्वं यज्ञः पशुभिः सार्धमेति; संतर्पितस्तर्पयते च कामैः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 18

न वेदानां परिभवान्न शाठ्येन न मायया

महत्प्राप्नोति पुरुषो ब्रह्म ब्रह्मणि विन्दति

Mahabharata

Shanti Parva, Adhyaya 261, Verse 19

दर्शं च पौर्णमासं च अग्निहोत्रं च धीमताम्

चातुर्मास्यानि चैवासंस्तेषु यज्ञः सनातनः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 20

अनारम्भाः सुधृतयः शुचयो ब्रह्मसंश्रिताः

ब्रह्मणैव स्म ते देवांस्तर्पयन्त्यमृतैषिणः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 21

सर्वभूतात्मभूतस्य सर्वभूतानि पश्यतः

देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 22

चतुर्द्वारं पुरुषं चतुर्मुखं; चतुर्धा चैनमुपयाति निन्दा

बाहुभ्यां वाच उदरादुपस्था;त्तेषां द्वारं द्वारपालो बुभूषेत्

Mahabharata

Shanti Parva, Adhyaya 261, Verse 23

नाक्षैर्दीव्येन्नाददीतान्यवित्तं; न वायोनीयस्य शृतं प्रगृह्णेत्

क्रुद्धो न चैव प्रहरेत धीमां;स्तथास्य तत्पाणिपादं सुगुप्तम्

Mahabharata

Shanti Parva, Adhyaya 261, Verse 24

नाक्रोशमर्छेन्न मृषा वदेच्च; न पैशुनं जनवादं च कुर्यात्

सत्यव्रतो मितभाषोऽप्रमत्त;स्तथास्य वाग्द्वारमथो सुगुप्तम्

Mahabharata

Shanti Parva, Adhyaya 261, Verse 25

नानाशनः स्यान्न महाशनः स्या;दलोलुपः साधुभिरागतः स्यात्

यात्रार्थमाहारमिहाददीत; तथास्य स्याज्जाठरी द्वारगुप्तिः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 26

न वीरपत्नीं विहरेत नारीं; न चापि नारीमनृतावाह्वयीत

भार्याव्रतं ह्यात्मनि धारयीत; तथास्योपस्थद्वारगुप्तिर्भवेत

Mahabharata

Shanti Parva, Adhyaya 261, Verse 27

द्वाराणि यस्य सर्वाणि सुगुप्तानि मनीषिणः

उपस्थमुदरं बाहू वाक्चतुर्थी स वै द्विजः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 28

मोघान्यगुप्तद्वारस्य सर्वाण्येव भवन्त्युत

किं तस्य तपसा कार्यं किं यज्ञेन किमात्मना

Mahabharata

Shanti Parva, Adhyaya 261, Verse 29

अनुत्तरीयवसनमनुपस्तीर्णशायिनम्

बाहूपधानं शाम्यन्तं तं देवा ब्राह्मणं विदुः

Mahabharata

Shanti Parva, Adhyaya 261, Verse 30

द्वंद्वारामेषु सर्वेषु य एको रमते मुनिः

परेषामननुध्यायंस्तं देवा ब्राह्मणं विदुः