Shanti Parva, Adhyaya 260, Verse 1
अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः
यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह
Containing 39 sacred Sanskrit shlokas with multi-author commentaries and translations.
अविरोधेन भूतानां त्यागः षाड्गुण्यकारकः
यः स्यादुभयभाग्धर्मस्तन्मे ब्रूहि पितामह
गार्हस्थ्यस्य च धर्मस्य त्यागधर्मस्य चोभयोः
अदूरसंप्रस्थितयोः किं स्विच्छ्रेयः पितामह
उभौ धर्मौ महाभागावुभौ परमदुश्चरौ
उभौ महाफलौ तात सद्भिराचरितावुभौ
अत्र ते वर्तयिष्यामि प्रामाण्यमुभयोस्तयोः
शृणुष्वैकमनाः पार्थ छिन्नधर्मार्थसंशयम्
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
कपिलस्य गोश्च संवादं तन्निबोध युधिष्ठिर
आम्नायमनुपश्यन्हि पुराणं शाश्वतं ध्रुवम्
नहुषः पूर्वमालेभे त्वष्टुर्गामिति नः श्रुतम्
तां नियुक्तामदीनात्मा सत्त्वस्थः समये रतः
ज्ञानवान्नियताहारो ददर्श कपिलस्तदा
स बुद्धिमुत्तमां प्राप्तो नैष्ठिकीमकुतोभयाम्
स्मरामि शिथिलं सत्यं वेदा इत्यब्रवीत्सकृत्
तां गामृषिः स्यूमरश्मिः प्रविश्य यतिमब्रवीत्
हंहो वेदा यदि मता धर्माः केनापरे मताः
तपस्विनो धृतिमतः श्रुतिविज्ञानचक्षुषः
सर्वमार्षं हि मन्यन्ते व्याहृतं विदितात्मनः
तस्यैवं गततृष्णस्य विज्वरस्य निराशिषः
का विवक्षास्ति वेदेषु निरारम्भस्य सर्वशः
नाहं वेदान्विनिन्दामि न विवक्षामि कर्हिचित्
पृथगाश्रमिणां कर्माण्येकार्थानीति नः श्रुतम्
गच्छत्येव परित्यागी वानप्रस्थश्च गच्छति
गृहस्थो ब्रह्मचारी च उभौ तावपि गच्छतः
देवयाना हि पन्थानश्चत्वारः शाश्वता मताः
तेषां ज्यायःकनीयस्त्वं फलेषूक्तं बलाबलम्
एवं विदित्वा सर्वार्थानारभेदिति वैदिकम्
नारभेदिति चान्यत्र नैष्ठिकी श्रूयते श्रुतिः
अनारम्भे ह्यदोषः स्यादारम्भेऽदोष उत्तमः
एवं स्थितस्य शास्त्रस्य दुर्विज्ञेयं बलाबलम्
यद्यत्र किंचित्प्रत्यक्षमहिंसायाः परं मतम्
ऋते त्वागमशास्त्रेभ्यो ब्रूहि तद्यदि पश्यसि
स्वर्गकामो यजेतेति सततं श्रूयते श्रुतिः
फलं प्रकल्प्य पूर्वं हि ततो यज्ञः प्रतायते
अजश्चाश्वश्च मेषश्च गौश्च पक्षिगणाश्च ये
ग्राम्यारण्या ओषधयः प्राणस्यान्नमिति श्रुतिः
तथैवान्नं ह्यहरहः सायं प्रातर्निरुप्यते
पशवश्चाथ धान्यं च यज्ञस्याङ्गमिति श्रुतिः
एतानि सह यज्ञेन प्रजापतिरकल्पयत्
तेन प्रजापतिर्देवान्यज्ञेनायजत प्रभुः
ते स्मान्योन्यंचराः सर्वे प्राणिनः सप्त सप्त च
यज्ञेषूपाकृतं विश्वं प्राहुरुत्तमसंज्ञितम्
एतच्चैवाभ्यनुज्ञातं पूर्वैः पूर्वतरैस्तथा
को जातु न विचिन्वीत विद्वान्स्वां शक्तिमात्मनः
पशवश्च मनुष्याश्च द्रुमाश्चौषधिभिः सह
स्वर्गमेवाभिकाङ्क्षन्ते न च स्वर्गस्त्वृते मखम्
ओषध्यः पशवो वृक्षा वीरुदाज्यं पयो दधि
हविर्भूमिर्दिशः श्रद्धा कालश्चैतानि द्वादश
ऋचो यजूंषि सामानि यजमानश्च षोडशः
अग्निर्ज्ञेयो गृहपतिः स सप्तदश उच्यते
अङ्गान्येतानि यज्ञस्य यज्ञो मूलमिति श्रुतिः
आज्येन पयसा दध्ना शकृतामिक्षया त्वचा
वालैः शृङ्गेण पादेन संभवत्येव गौर्मखम्
एवं प्रत्येकशः सर्वं यद्यदस्य विधीयते
यज्ञं वहन्ति संभूय सहर्त्विग्भिः सदक्षिणैः
संहत्यैतानि सर्वाणि यज्ञं निर्वर्तयन्त्युत
यज्ञार्थानि हि सृष्टानि यथा वै श्रूयते श्रुतिः
एवं पूर्वे पूर्वतराः प्रवृत्ताश्चैव मानवाः
न हिनस्ति ह्यारभते नाभिद्रुह्यति किंचन
यज्ञो यष्टव्य इत्येव यो यजत्यफलेप्सया