Shanti Parva, Adhyaya 259, Verse 1
कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह
Containing 35 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत्
पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह
अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम्
वधाय नीयमानेषु पितुरेवानुशासनात्
अधर्मतां याति धर्मो यात्यधर्मश्च धर्मताम्
वधो नाम भवेद्धर्मो नैतद्भवितुमर्हति
अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत्
दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत्
ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे
लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः
सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः
धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति
यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः
अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत्
तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः
असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि
दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः
भार्या माता पिता पुत्रो हन्यते पुरुषे हते
परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत्
असाधुश्चैव पुरुषो लभते शीलमेकदा
साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा
न मूलघातः कर्तव्यो नैष धर्मः सनातनः
अपि खल्ववधेनैव प्रायश्चित्तं विधीयते
उद्वेजनेन बन्धेन विरूपकरणेन च
वधदण्डेन ते क्लेश्या न पुरोऽहितसंपदा
यदा पुरोहितं वा ते पर्येयुः शरणैषिणः
करिष्यामः पुनर्ब्रह्मन्न पापमिति वादिनः
तदा विसर्गमर्हाः स्युरितीदं नृपशासनम्
बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम्
गरीयांसो गरीयांसमपराधे पुनः पुनः
तथा विसर्गमर्हन्ति न यथा प्रथमे तथा
यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः
स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते
अहन्यमानेषु पुनः सर्वमेव पराभवेत्
पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः
मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः
पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम्
आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते
वधेनापि न शक्यन्ते नियन्तुमपरे जनाः
नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः
न गन्धर्वपितॄणां च कः कस्येह न कश्चन
पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम्
तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु
तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया
कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु
राजानो लोकयात्रार्थं तप्यन्ते परमं तपः
अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च
वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन्
सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः
श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते
सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः
आत्मानमसमाधाय समाधित्सति यः परान्
विषयेष्विन्द्रियवशं मानवाः प्रहसन्ति तम्
यो राज्ञो दम्भमोहेन किंचित्कुर्यादसांप्रतम्
सर्वोपायैर्नियम्यः स तथा पापान्निवर्तते
आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता
दण्डयेच्च महादण्डैरपि बन्धूननन्तरान्
यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति
वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम्
इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात्