Shanti Parva, Adhyaya 258, Verse 1
कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः
Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.
कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा
सर्वथा कार्यदुर्गेऽस्मिन्भवान्नः परमो गुरुः
अत्राप्युदाहरन्तीममितिहासं पुरातनम्
चिरकारेस्तु यत्पूर्वं वृत्तमाङ्गिरसे कुले
चिरकारिक भद्रं ते भद्रं ते चिरकारिक
चिरकारी हि मेधावी नापराध्यति कर्मसु
चिरकारी महाप्राज्ञो गौतमस्याभवत्सुतः
चिरं हि सर्वकार्याणि समेक्षावान्प्रपद्यते
चिरं संचिन्तयन्नर्थांश्चिरं जाग्रच्चिरं स्वपन्
चिरकार्याभिसंपत्तेश्चिरकारी तथोच्यते
अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते
बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना
व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान्
पित्रोक्तः कुपितेनाथ जहीमां जननीमिति
स तथेति चिरेणोक्त्वा स्वभावाच्चिरकारिकः
विमृश्य चिरकारित्वाच्चिन्तयामास वै चिरम्
पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम्
कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत्
पितुराज्ञा परो धर्मः स्वधर्मो मातृरक्षणम्
अस्वतन्त्रं च पुत्रत्वं किं नु मां नात्र पीडयेत्
स्त्रियं हत्वा मातरं च को हि जातु सुखी भवेत्
पितरं चाप्यवज्ञाय कः प्रतिष्ठामवाप्नुयात्
अनवज्ञा पितुर्युक्ता धारणं मातृरक्षणम्
युक्तक्षमावुभावेतौ नातिवर्तेतमां कथम्
पिता ह्यात्मानमाधत्ते जायायां जज्ञियामिति
शीलचारित्रगोत्रस्य धारणार्थं कुलस्य च
सोऽहमात्मा स्वयं पित्रा पुत्रत्वे प्रकृतः पुनः
विज्ञानं मे कथं न स्याद्बुबुधे चात्मसंभवम्
जातकर्मणि यत्प्राह पिता यच्चोपकर्मणि
पर्याप्तः स दृढीकारः पितुर्गौरवनिश्चये
गुरुरग्र्यः परो धर्मः पोषणाध्ययनाद्धितः
पिता यदाह धर्मः स वेदेष्वपि सुनिश्चितः
प्रीतिमात्रं पितुः पुत्रः सर्वं पुत्रस्य वै पिता
शरीरादीनि देयानि पिता त्वेकः प्रयच्छति
तस्मात्पितुर्वचः कार्यं न विचार्यं कथंचन
पातकान्यपि पूयन्ते पितुर्वचनकारिणः
भोगे भाग्ये प्रसवने सर्वलोकनिदर्शने
भर्त्रा चैव समायोगे सीमन्तोन्नयने तथा
पिता स्वर्गः पिता धर्मः पिता परमकं तपः
पितरि प्रीतिमापन्ने सर्वाः प्रीयन्ति देवताः
आशिषस्ता भजन्त्येनं पुरुषं प्राह याः पिता
निष्कृतिः सर्वपापानां पिता यदभिनन्दति
मुच्यते बन्धनात्पुष्पं फलं वृन्तात्प्रमुच्यते
क्लिश्यन्नपि सुतस्नेहैः पिता स्नेहं न मुञ्चति
एतद्विचिन्तितं तावत्पुत्रस्य पितृगौरवम्
पिता ह्यल्पतरं स्थानं चिन्तयिष्यामि मातरम्
यो ह्ययं मयि संघातो मर्त्यत्वे पाञ्चभौतिकः
अस्य मे जननी हेतुः पावकस्य यथारणिः
माता देहारणिः पुंसां सर्वस्यार्तस्य निर्वृतिः
न च शोचति नाप्येनं स्थाविर्यमपकर्षति
श्रिया हीनोऽपि यो गेहे अम्बेति प्रतिपद्यते
पुत्रपौत्रसमाकीर्णो जननीं यः समाश्रितः
अपि वर्षशतस्यान्ते स द्विहायनवच्चरेत्
समर्थं वासमर्थं वा कृशं वाप्यकृशं तथा
रक्षत्येव सुतं माता नान्यः पोष्टा विधानतः
तदा स वृद्धो भवति यदा भवति दुःखितः
तदा शून्यं जगत्तस्य यदा मात्रा वियुज्यते
नास्ति मातृसमा छाया नास्ति मातृसमा गतिः
नास्ति मातृसमं त्राणं नास्ति मातृसमा प्रपा
कुक्षिसंधारणाद्धात्री जननाज्जननी स्मृता
अङ्गानां वर्धनादम्बा वीरसूत्वेन वीरसूः