Mahabharata

Shanti Parva, Adhyaya 257

Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 257, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

प्रजानामनुकम्पार्थं गीतं राज्ञा विचख्नुना

Mahabharata

Shanti Parva, Adhyaya 257, Verse 2

छिन्नस्थूणं वृषं दृष्ट्वा विरावं च गवां भृशम्

गोग्रहे यज्ञवाटस्य प्रेक्षमाणः स पार्थिवः

Mahabharata

Shanti Parva, Adhyaya 257, Verse 3

स्वस्ति गोभ्योऽस्तु लोकेषु ततो निर्वचनं कृतम्

हिंसायां हि प्रवृत्तायामाशीरेषानुकल्पिता

Mahabharata

Shanti Parva, Adhyaya 257, Verse 4

अव्यवस्थितमर्यादैर्विमूढैर्नास्तिकैर्नरैः

संशयात्मभिरव्यक्तैर्हिंसा समनुकीर्तिता

Mahabharata

Shanti Parva, Adhyaya 257, Verse 5

सर्वकर्मस्वहिंसा हि धर्मात्मा मनुरब्रवीत्

कामरागाद्विहिंसन्ति बहिर्वेद्यां पशून्नराः

Mahabharata

Shanti Parva, Adhyaya 257, Verse 6

तस्मात्प्रमाणतः कार्यो धर्मः सूक्ष्मो विजानता

अहिंसैव हि सर्वेभ्यो धर्मेभ्यो ज्यायसी मता

Mahabharata

Shanti Parva, Adhyaya 257, Verse 7

उपोष्य संशितो भूत्वा हित्वा वेदकृताः श्रुतीः

आचार इत्यनाचाराः कृपणाः फलहेतवः

Mahabharata

Shanti Parva, Adhyaya 257, Verse 8

यदि यज्ञांश्च वृक्षांश्च यूपांश्चोद्दिश्य मानवाः

वृथा मांसानि खादन्ति नैष धर्मः प्रशस्यते

Mahabharata

Shanti Parva, Adhyaya 257, Verse 9

मांसं मधु सुरा मत्स्या आसवं कृसरौदनम्

धूर्तैः प्रवर्तितं ह्येतन्नैतद्वेदेषु कल्पितम्

Mahabharata

Shanti Parva, Adhyaya 257, Verse 10

कामान्मोहाच्च लोभाच्च लौल्यमेतत्प्रवर्तितम्

विष्णुमेवाभिजानन्ति सर्वयज्ञेषु ब्राह्मणाः

पायसैः सुमनोभिश्च तस्यापि यजनं स्मृतम्

Mahabharata

Shanti Parva, Adhyaya 257, Verse 11

यज्ञियाश्चैव ये वृक्षा वेदेषु परिकल्पिताः

यच्चापि किंचित्कर्तव्यमन्यच्चोक्षैः सुसंस्कृतम्

महासत्त्वैः शुद्धभावैः सर्वं देवार्हमेव तत्

Mahabharata

Shanti Parva, Adhyaya 257, Verse 12

शरीरमापदश्चापि विवदन्त्यविहिंसतः

कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति

Mahabharata

Shanti Parva, Adhyaya 257, Verse 13

यथा शरीरं न ग्लायेन्नेयान्मृत्युवशं यथा

तथा कर्मसु वर्तेत समर्थो धर्ममाचरेत्