Shanti Parva, Adhyaya 256, Verse 1
सद्भिर्वा यदि वासद्भिरयं पन्थाः समाश्रितः
प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा
Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.
सद्भिर्वा यदि वासद्भिरयं पन्थाः समाश्रितः
प्रत्यक्षं क्रियतां साधु ततो ज्ञास्यसि तद्यथा
एते शकुन्ता बहवः समन्ताद्विचरन्ति हि
तवोत्तमाङ्गे संभूताः श्येनाश्चान्याश्च जातयः
आह्वयैनान्महाब्रह्मन्विशमानांस्ततस्ततः
पश्येमान्हस्तपादेषु श्लिष्टान्देहे च सर्वशः
संभावयन्ति पितरं त्वया संभाविताः खगाः
असंशयं पिता च त्वं पुत्रानाह्वय जाजले
ततो जाजलिना तेन समाहूताः पतत्रिणः
वाचमुच्चारयन्दिव्यां धर्मस्य वचनात्किल
अहिंसादिकृतं कर्म इह चैव परत्र च
स्पर्धा निहन्ति वै ब्रह्मन्साहता हन्ति तं नरम्
श्रद्धावृद्धं वाङ्मनसी न यज्ञस्त्रातुमर्हति
अत्र गाथा ब्रह्मगीताः कीर्तयन्ति पुराविदः
शुचेरश्रद्दधानस्य श्रद्दधानस्य चाशुचेः
देवाश्चित्तममन्यन्त सदृशं यज्ञकर्मणि
श्रोत्रियस्य कदर्यस्य वदान्यस्य च वार्धुषेः
मीमांसित्वोभयं देवाः सममन्नमकल्पयन्
प्रजापतिस्तानुवाच विषमं कृतमित्युत
श्रद्धापूतं वदान्यस्य हतमश्रद्धयेतरत्
भोज्यमन्नं वदान्यस्य कदर्यस्य न वार्धुषेः
अश्रद्दधान एवैको देवानां नार्हते हविः
तस्यैवान्नं न भोक्तव्यमिति धर्मविदो विदुः
अश्रद्धा परमं पापं श्रद्धा पापप्रमोचनी
जहाति पापं श्रद्धावान्सर्पो जीर्णामिव त्वचम्
ज्यायसी या पवित्राणां निवृत्तिः श्रद्धया सह
निवृत्तशीलदोषो यः श्रद्धावान्पूत एव सः
किं तस्य तपसा कार्यं किं वृत्तेन किमात्मना
श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः
इति धर्मः समाख्यातः सद्भिर्धर्मार्थदर्शिभिः
वयं जिज्ञासमानास्त्वा संप्राप्ता धर्मदर्शनात्
स्पर्धां जहि महाप्राज्ञ ततः प्राप्स्यसि यत्परम्
श्रद्धावाञ्श्रद्दधानश्च धर्मांश्चैवेह वाणिजः
स्ववर्त्मनि स्थितश्चैव गरीयानेष जाजले
एवं बहुमतार्थं च तुलाधारेण भाषितम्
सम्यक्चैवमुपालब्धो धर्मश्चोक्तः सनातनः
तस्य विख्यातवीर्यस्य श्रुत्वा वाक्यानि स द्विजः
तुलाधारस्य कौन्तेय शान्तिमेवान्वपद्यत
ततोऽचिरेण कालेन तुलाधारः स एव च
दिवं गत्वा महाप्राज्ञौ विहरेतां यथासुखम्
स्वं स्वं स्थानमुपागम्य स्वकर्मफलनिर्जितम्
समानां श्रद्दधानानां संयतानां सुचेतसाम्
कुर्वतां यज्ञ इत्येव न यज्ञो जातु नेष्यते
श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता नृप
सावित्री प्रसवित्री च जीवविश्वासिनी तथा
वाग्वृद्धं त्रायते श्रद्धा मनोवृद्धं च भारत
यथौपम्योपदेशेन किं भूयः श्रोतुमिच्छसि