Shanti Parva, Adhyaya 254, Verse 1
इत्युक्तः स तदा तेन तुलाधारेण धीमता
प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः
Containing 52 sacred Sanskrit shlokas with multi-author commentaries and translations.
इत्युक्तः स तदा तेन तुलाधारेण धीमता
प्रोवाच वचनं धीमाञ्जाजलिर्जपतां वरः
विक्रीणानः सर्वरसान्सर्वगन्धांश्च वाणिज
वनस्पतीनोषधीश्च तेषां मूलफलानि च
अध्यगा नैष्ठिकीं बुद्धिं कुतस्त्वामिदमागतम्
एतदाचक्ष्व मे सर्वं निखिलेन महामते
एवमुक्तस्तुलाधारो ब्राह्मणेन यशस्विना
उवाच धर्मसूक्ष्माणि वैश्यो धर्मार्थतत्त्ववित्
जाजलिं कष्टतपसं ज्ञानतृप्तस्तदा नृप
वेदाहं जाजले धर्मं सरहस्यं सनातनम्
सर्वभूतहितं मैत्रं पुराणं यं जना विदुः
अद्रोहेणैव भूतानामल्पद्रोहेण वा पुनः
या वृत्तिः स परो धर्मस्तेन जीवामि जाजले
परिच्छिन्नैः काष्ठतृणैर्मयेदं शरणं कृतम्
अलक्तं पद्मकं तुङ्गं गन्धांश्चोच्चावचांस्तथा
रसांश्च तांस्तान्विप्रर्षे मद्यवर्जानहं बहून्
क्रीत्वा वै प्रतिविक्रीणे परहस्तादमायया
सर्वेषां यः सुहृन्नित्यं सर्वेषां च हिते रतः
कर्मणा मनसा वाचा स धर्मं वेद जाजले
नाहं परेषां कर्माणि प्रशंसामि शपामि वा
आकाशस्येव विप्रर्षे पश्यँल्लोकस्य चित्रताम्
नानुरुध्ये विरुध्ये वा न द्वेष्मि न च कामये
समोऽस्मि सर्वभूतेषु पश्य मे जाजले व्रतम्
इष्टानिष्टविमुक्तस्य प्रीतिरागबहिष्कृतः
तुला मे सर्वभूतेषु समा तिष्ठति जाजले
इति मां त्वं विजानीहि सर्वलोकस्य जाजले
समं मतिमतां श्रेष्ठ समलोष्टाश्मकाञ्चनम्
यथान्धबधिरोन्मत्ता उच्छ्वासपरमाः सदा
देवैरपिहितद्वाराः सोपमा पश्यतो मम
यथा वृद्धातुरकृशा निःस्पृहा विषयान्प्रति
तथार्थकामभोगेषु ममापि विगता स्पृहा
यदा चायं न बिभेति यदा चास्मान्न बिभ्यति
यदा नेच्छति न द्वेष्टि तदा सिध्यति वै द्विजः
यदा न कुरुते भावं सर्वभूतेषु पापकम्
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा
न भूतो न भविष्यश्च न च धर्मोऽस्ति कश्चन
योऽभयः सर्वभूतानां स प्राप्नोत्यभयं पदम्
यस्मादुद्विजते लोकः सर्वो मृत्युमुखादिव
वाक्क्रूराद्दण्डपारुष्यात्स प्राप्नोति महद्भयम्
यथावद्वर्तमानानां वृद्धानां पुत्रपौत्रिणाम्
अनुवर्तामहे वृत्तमहिंस्राणां महात्मनाम्
प्रनष्टः शाश्वतो धर्मः सदाचारेण मोहितः
तेन वैद्यस्तपस्वी वा बलवान्वा विमोह्यते
आचाराज्जाजले प्राज्ञः क्षिप्रं धर्ममवाप्नुयात्
एवं यः साधुभिर्दान्तश्चरेदद्रोहचेतसा
नद्यां यथा चेह काष्ठमुह्यमानं यदृच्छया
यदृच्छयैव काष्ठेन संधिं गच्छेत केनचित्
तत्रापराणि दारूणि संसृज्यन्ते ततस्ततः
तृणकाष्ठकरीषाणि कदा चिन्नसमीक्षया
एवमेवायमाचारः प्रादुर्भूतो यतस्ततः
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन
अभयं सर्वभूतेभ्यः स प्राप्नोति सदा मुने
यस्मादुद्विजते विद्वन्सर्वलोको वृकादिव
क्रोशतस्तीरमासाद्य यथा सर्वे जलेचराः
सहायवान्द्रव्यवान्यः सुभगोऽन्योऽपरस्तथा
ततस्तानेव कवयः शास्त्रेषु प्रवदन्त्युत
कीर्त्यर्थमल्पहृल्लेखाः पटवः कृत्स्ननिर्णयाः
तपोभिर्यज्ञदानैश्च वाक्यैः प्रज्ञाश्रितैस्तथा
प्राप्नोत्यभयदानस्य यद्यत्फलमिहाश्नुते
लोके यः सर्वभूतेभ्यो ददात्यभयदक्षिणाम्
स सर्वयज्ञैरीजानः प्राप्नोत्यभयदक्षिणाम्
न भूतानामहिंसाया ज्यायान्धर्मोऽस्ति कश्चन
यस्मान्नोद्विजते भूतं जातु किंचित्कथंचन
सोऽभयं सर्वभूतेभ्यः संप्राप्नोति महामुने