Mahabharata

Shanti Parva, Adhyaya 253

Containing 51 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 253, Verse 1

अत्राप्युदाहरन्तीममितिहासं पुरातनम्

तुलाधारस्य वाक्यानि धर्मे जाजलिना सह

Mahabharata

Shanti Parva, Adhyaya 253, Verse 2

वने वनचरः कश्चिज्जाजलिर्नाम वै द्विजः

सागरोद्देशमागम्य तपस्तेपे महातपाः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 3

नियतो नियताहारश्चीराजिनजटाधरः

मलपङ्कधरो धीमान्बहून्वर्षगणान्मुनिः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 4

स कदाचिन्महातेजा जलवासो महीपते

चचार लोकान्विप्रर्षिः प्रेक्षमाणो मनोजवः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 5

स चिन्तयामास मुनिर्जलमध्ये कदाचन

विप्रेक्ष्य सागरान्तां वै महीं सवनकाननाम्

Mahabharata

Shanti Parva, Adhyaya 253, Verse 6

न मया सदृशोऽस्तीह लोके स्थावरजङ्गमे

अप्सु वैहायसं गच्छेन्मया योऽन्यः सहेति वै

Mahabharata

Shanti Parva, Adhyaya 253, Verse 7

स दृश्यमानो रक्षोभिर्जलमध्येऽवदत्ततः

अब्रुवंश्च पिशाचास्तं नैवं त्वं वक्तुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 253, Verse 8

तुलाधारो वणिग्धर्मा वाराणस्यां महायशाः

सोऽप्येवं नार्हते वक्तुं यथा त्वं द्विजसत्तम

Mahabharata

Shanti Parva, Adhyaya 253, Verse 9

इत्युक्तो जाजलिर्भूतैः प्रत्युवाच महातपाः

पश्येयं तमहं प्राज्ञं तुलाधारं यशस्विनम्

Mahabharata

Shanti Parva, Adhyaya 253, Verse 10

इति ब्रुवाणं तमृषिं रक्षांस्युद्धृत्य सागरात्

अब्रुवन्गच्छ पन्थानमास्थायेमं द्विजोत्तम

Mahabharata

Shanti Parva, Adhyaya 253, Verse 11

इत्युक्तो जाजलिर्भूतैर्जगाम विमनास्तदा

वाराणस्यां तुलाधारं समासाद्याब्रवीद्वचः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 12

किं कृतं सुकृतं कर्म तात जाजलिना पुरा

येन सिद्धिं परां प्राप्तस्तन्नो व्याख्यातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 253, Verse 13

अतीव तपसा युक्तो घोरेण स बभूव ह

नद्युपस्पर्शनरतः सायं प्रातर्महातपाः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 14

अग्नीन्परिचरन्सम्यक्स्वाध्यायपरमो द्विजः

वानप्रस्थविधानज्ञो जाजलिर्ज्वलितः श्रिया

Mahabharata

Shanti Parva, Adhyaya 253, Verse 15

सत्ये तपसि तिष्ठन्स न च धर्ममवैक्षत

वर्षास्वाकाशशायी स हेमन्ते जलसंश्रयः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 16

वातातपसहो ग्रीष्मे न च धर्ममविन्दत

दुःखशय्याश्च विविधा भूमौ च परिवर्तनम्

Mahabharata

Shanti Parva, Adhyaya 253, Verse 17

ततः कदाचित्स मुनिर्वर्षास्वाकाशमास्थितः

अन्तरिक्षाज्जलं मूर्ध्ना प्रत्यगृह्णान्मुहुर्मुहुः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 18

अथ तस्य जटाः क्लिन्ना बभूवुर्ग्रथिताः प्रभो

अरण्यगमनान्नित्यं मलिनो मलसंयुताः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 19

स कदाचिन्निराहारो वायुभक्षो महातपाः

तस्थौ काष्ठवदव्यग्रो न चचाल च कर्हिचित्

Mahabharata

Shanti Parva, Adhyaya 253, Verse 20

तस्य स्म स्थाणुभूतस्य निर्विचेष्टस्य भारत

कुलिङ्गशकुनौ राजन्नीडं शिरसि चक्रतुः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 21

स तौ दयावान्विप्रर्षिरुपप्रैक्षत दम्पती

कुर्वाणं नीडकं तत्र जटासु तृणतन्तुभिः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 22

यदा स न चलत्येव स्थाणुभूतो महातपाः

ततस्तौ परिविश्वस्तौ सुखं तत्रोषतुस्तदा

Mahabharata

Shanti Parva, Adhyaya 253, Verse 23

अतीतास्वथ वर्षासु शरत्काल उपस्थिते

प्राजापत्येन विधिना विश्वासात्काममोहितौ

Mahabharata

Shanti Parva, Adhyaya 253, Verse 24

तत्रापातयतां राजञ्शिरस्यण्डानि खेचरौ

तान्यबुध्यत तेजस्वी स विप्रः संशितव्रतः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 25

बुद्ध्वा च स महातेजा न चचालैव जाजलिः

धर्मे धृतमना नित्यं नाधर्मं स त्वरोचयत्

Mahabharata

Shanti Parva, Adhyaya 253, Verse 26

अहन्यहनि चागम्य ततस्तौ तस्य मूर्धनि

आश्वासितौ वै वसतः संप्रहृष्टौ तदा विभो

Mahabharata

Shanti Parva, Adhyaya 253, Verse 27

अण्डेभ्यस्त्वथ पुष्टेभ्यः प्रजायन्त शकुन्तकाः

व्यवर्धन्त च तत्रैव न चाकम्पत जाजलिः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 28

स रक्षमाणस्त्वण्डानि कुलिङ्गानां यतव्रतः

तथैव तस्थौ धर्मात्मा निर्विचेष्टः समाहितः

Mahabharata

Shanti Parva, Adhyaya 253, Verse 29

ततस्तु कालसमये बभूवुस्तेऽथ पक्षिणः

बुबुधे तांश्च स मुनिर्जातपक्षाञ्शकुन्तकान्

Mahabharata

Shanti Parva, Adhyaya 253, Verse 30

ततः कदाचित्तांस्तत्र पश्यन्पक्षीन्यतव्रतः

बभूव परमप्रीतस्तदा मतिमतां वरः