Mahabharata

Shanti Parva, Adhyaya 252

Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 252, Verse 1

सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम्

प्रतिभा त्वस्ति मे काचित्तां ब्रूयामनुमानतः

Mahabharata

Shanti Parva, Adhyaya 252, Verse 2

भूयांसो हृदये ये मे प्रश्नास्ते व्याहृतास्त्वया

इममन्यं प्रवक्ष्यामि न राजन्विग्रहादिव

Mahabharata

Shanti Parva, Adhyaya 252, Verse 3

इमानि हि प्रापयन्ति सृजन्त्युत्तारयन्ति च

न धर्मः परिपाठेन शक्यो भारत वेदितुम्

Mahabharata

Shanti Parva, Adhyaya 252, Verse 4

अन्यो धर्मः समस्थस्य विषमस्थस्य चापरः

आपदस्तु कथं शक्याः परिपाठेन वेदितुम्

Mahabharata

Shanti Parva, Adhyaya 252, Verse 5

सदाचारो मतो धर्मः सन्तस्त्वाचारलक्षणाः

साध्यासाध्यं कथं शक्यं सदाचारो ह्यलक्षणम्

Mahabharata

Shanti Parva, Adhyaya 252, Verse 6

दृश्यते धर्मरूपेण अधर्मं प्राकृतश्चरन्

धर्मं चाधर्मरूपेण कश्चिदप्राकृतश्चरन्

Mahabharata

Shanti Parva, Adhyaya 252, Verse 7

पुनरस्य प्रमाणं हि निर्दिष्टं शास्त्रकोविदैः

वेदवादाश्चानुयुगं ह्रसन्तीति ह नः श्रुतम्

Mahabharata

Shanti Parva, Adhyaya 252, Verse 8

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे

अन्ये कलियुगे धर्मा यथाशक्तिकृता इव

Mahabharata

Shanti Parva, Adhyaya 252, Verse 9

आम्नायवचनं सत्यमित्ययं लोकसंग्रहः

आम्नायेभ्यः परं वेदाः प्रसृता विश्वतोमुखाः

Mahabharata

Shanti Parva, Adhyaya 252, Verse 10

ते चेत्सर्वे प्रमाणं वै प्रमाणं तन्न विद्यते

प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः

Mahabharata

Shanti Parva, Adhyaya 252, Verse 11

धर्मस्य ह्रियमाणस्य बलवद्भिर्दुरात्मभिः

या या विक्रियते संस्था ततः सापि प्रणश्यति

Mahabharata

Shanti Parva, Adhyaya 252, Verse 12

विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा

अणीयान्क्षुरधाराया गरीयान्पर्वतादपि

Mahabharata

Shanti Parva, Adhyaya 252, Verse 13

गन्धर्वनगराकारः प्रथमं संप्रदृश्यते

अन्वीक्ष्यमाणः कविभिः पुनर्गच्छत्यदर्शनम्

Mahabharata

Shanti Parva, Adhyaya 252, Verse 14

निपानानीव गोभ्याशे क्षेत्रे कुल्येव भारत

स्मृतोऽपि शाश्वतो धर्मो विप्रहीणो न दृश्यते

Mahabharata

Shanti Parva, Adhyaya 252, Verse 15

कामादन्ये क्षयादन्ये कारणैरपरैस्तथा

असन्तो हि वृथाचारं भजन्ते बहवोऽपरे

Mahabharata

Shanti Parva, Adhyaya 252, Verse 16

धर्मो भवति स क्षिप्रं विलीनस्त्वेव साधुषु

अन्ये तानाहुरुन्मत्तानपि चावहसन्त्युत

Mahabharata

Shanti Parva, Adhyaya 252, Verse 17

महाजना ह्युपावृत्ता राजधर्मं समाश्रिताः

न हि सर्वहितः कश्चिदाचारः संप्रदृश्यते

Mahabharata

Shanti Parva, Adhyaya 252, Verse 18

तेनैवान्यः प्रभवति सोऽपरं बाधते पुनः

दृश्यते चैव स पुनस्तुल्यरूपो यदृच्छया

Mahabharata

Shanti Parva, Adhyaya 252, Verse 19

येनैवान्यः प्रभवति सोऽपरानपि बाधते

आचाराणामनैकाग्र्यं सर्वेषामेव लक्षयेत्

Mahabharata

Shanti Parva, Adhyaya 252, Verse 20

चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः

तेनाचारेण पूर्वेण संस्था भवति शाश्वती