Shanti Parva, Adhyaya 250, Verse 1
विनीय दुःखमबला सा त्वतीवायतेक्षणा
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा
Containing 41 sacred Sanskrit shlokas with multi-author commentaries and translations.
विनीय दुःखमबला सा त्वतीवायतेक्षणा
उवाच प्राञ्जलिर्भूत्वा लतेवावर्जिता तदा
त्वया सृष्टा कथं नारी मादृशी वदतां वर
रौद्रकर्माभिजायेत सर्वप्राणिभयंकरी
बिभेम्यहमधर्मस्य धर्म्यमादिश कर्म मे
त्वं मां भीतामवेक्षस्व शिवेनेश्वर चक्षुषा
बालान्वृद्धान्वयःस्थांश्च न हरेयमनागसः
प्राणिनः प्राणिनामीश नमस्तेऽभिप्रसीद मे
प्रियान्पुत्रान्वयस्यांश्च भ्रातॄन्मातॄः पितॄनपि
अपध्यास्यन्ति यद्देव मृतांस्तेषां बिभेम्यहम्
कृपणाश्रुपरिक्लेदो दहेन्मां शाश्वतीः समाः
तेभ्योऽहं बलवद्भीता शरणं त्वामुपागता
यमस्य भवने देव यात्यन्ते पापकर्मिणः
प्रसादये त्वा वरद प्रसादं कुरु मे प्रभो
एतमिच्छाम्यहं कामं त्वत्तो लोकपितामह
इच्छेयं त्वत्प्रसादाच्च तपस्तप्तुं सुरेश्वर
मृत्यो संकल्पिता मे त्वं प्रजासंहारहेतुना
गच्छ संहर सर्वास्त्वं प्रजा मा च विचारय
एतदेवमवश्यं हि भविता नैतदन्यथा
क्रियतामनवद्याङ्गि यथोक्तं मद्वचोऽनघे
एवमुक्ता महाबाहो मृत्युः परपुरंजय
न व्याजहार तस्थौ च प्रह्वा भगवदुन्मुखी
पुनः पुनरथोक्ता सा गतसत्त्वेव भामिनी
तूष्णीमासीत्ततो देवो देवानामीश्वरेश्वरः
प्रससाद किल ब्रह्मा स्वयमेवात्मनात्मवान्
स्मयमानश्च लोकेशो लोकान्सर्वानवैक्षत
निवृत्तरोषे तस्मिंस्तु भगवत्यपराजिते
सा कन्यापजगामास्य समीपादिति नः श्रुतम्
अपसृत्याप्रतिश्रुत्य प्रजासंहरणं तदा
त्वरमाणेव राजेन्द्र मृत्युर्धेनुकमभ्ययात्
सा तत्र परमं देवी तपोऽचरत दुश्चरम्
समा ह्येकपदे तस्थौ दश पद्मानि पञ्च च
तां तथा कुर्वतीं तत्र तपः परमदुश्चरम्
पुनरेव महातेजा ब्रह्मा वचनमब्रवीत्
कुरुष्व मे वचो मृत्यो तदनादृत्य सत्वरा
तथैवैकपदे तात पुनरन्यानि सप्त सा
तस्थौ पद्मानि षट्चैव पञ्च द्वे चैव मानद
भूयः पद्मायुतं तात मृगैः सह चचार सा
पुनर्गत्वा ततो राजन्मौनमातिष्ठदुत्तमम्
अप्सु वर्षसहस्राणि सप्त चैकं च पार्थिव
ततो जगाम सा कन्या कौशिकीं भरतर्षभ
तत्र वायुजलाहारा चचार नियमं पुनः
ततो ययौ महाभागा गङ्गां मेरुं च केवलम्
तस्थौ दार्विव निश्चेष्टा भूतानां हितकाम्यया
ततो हिमवतो मूर्ध्नि यत्र देवाः समीजिरे
तत्राङ्गुष्ठेन राजेन्द्र निखर्वमपरं ततः
तस्थौ पितामहं चैव तोषयामास यत्नतः
ततस्तामब्रवीत्तत्र लोकानां प्रभवाप्ययः
किमिदं वर्तते पुत्रि क्रियतां तद्वचो मम
ततोऽब्रवीत्पुनर्मृत्युर्भगवन्तं पितामहम्
न हरेयं प्रजा देव पुनस्त्वाहं प्रसादये
तामधर्मभयत्रस्तां पुनरेव च याचतीम्
तदाब्रवीद्देवदेवो निगृह्येदं वचस्ततः
अधर्मो नास्ति ते मृत्यो संयच्छेमाः प्रजाः शुभे
मया ह्युक्तं मृषा भद्रे भविता नेह किंचन
धर्मः सनातनश्च त्वामिहैवानुप्रवेक्ष्यते
अहं च विबुधाश्चैव त्वद्धिते निरताः सदा
इममन्यं च ते कामं ददामि मनसेप्सितम्
न त्वा दोषेण यास्यन्ति व्याधिसंपीडिताः प्रजाः
पुरुषेषु च रूपेण पुरुषस्त्वं भविष्यसि
स्त्रीषु स्त्रीरूपिणी चैव तृतीयेषु नपुंसकम्