Mahabharata

Adi Parva, Adhyaya 225

Containing 19 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Adi Parva, Adhyaya 225, Verse 1

युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया

अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम्

Mahabharata

Adi Parva, Adhyaya 225, Verse 2

अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः

युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः

Mahabharata

Adi Parva, Adhyaya 225, Verse 3

न संतापो हि वः कार्यः पुत्रका मरणं प्रति

ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः

Mahabharata

Adi Parva, Adhyaya 225, Verse 4

एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत

मन्दपालस्ततो देशादन्यं देशं जगाम ह

Mahabharata

Adi Parva, Adhyaya 225, Verse 5

भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम्

ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम्

Mahabharata

Adi Parva, Adhyaya 225, Verse 6

वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः

अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम्

Mahabharata

Adi Parva, Adhyaya 225, Verse 7

ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः

मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम्

Mahabharata

Adi Parva, Adhyaya 225, Verse 8

कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम्

वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान्

Mahabharata

Adi Parva, Adhyaya 225, Verse 9

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः

ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह

Mahabharata

Adi Parva, Adhyaya 225, Verse 10

यदा प्रसन्नो भगवान्महादेवो भविष्यति

तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः

Mahabharata

Adi Parva, Adhyaya 225, Verse 11

अहमेव च तं कालं वेत्स्यामि कुरुनन्दन

तपसा महता चापि दास्यामि तव तान्यहम्

Mahabharata

Adi Parva, Adhyaya 225, Verse 12

आग्नेयानि च सर्वाणि वायव्यानि तथैव च

मदीयानि च सर्वाणि ग्रहीष्यसि धनंजय

Mahabharata

Adi Parva, Adhyaya 225, Verse 13

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम्

ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा

Mahabharata

Adi Parva, Adhyaya 225, Verse 14

दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः

हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः

Mahabharata

Adi Parva, Adhyaya 225, Verse 15

पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम्

अहानि पञ्च चैकं च विरराम सुतर्पितः

Mahabharata

Adi Parva, Adhyaya 225, Verse 16

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च

युक्तः परमया प्रीत्या तावुवाच विशां पते

Mahabharata

Adi Parva, Adhyaya 225, Verse 17

युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम्

अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम्

Mahabharata

Adi Parva, Adhyaya 225, Verse 18

एवं तौ समनुज्ञातौ पावकेन महात्मना

अर्जुनो वासुदेवश्च दानवश्च मयस्तथा

Mahabharata

Adi Parva, Adhyaya 225, Verse 19

परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ

रमणीये नदीकूले सहिताः समुपाविशन्