Mahabharata

Shanti Parva, Adhyaya 249

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 249, Verse 1

प्रजासर्गनिमित्तं मे कार्यवत्तामिमां प्रभो

विद्धि सृष्टास्त्वया हीमा मा कुप्यासां पितामह

Mahabharata

Shanti Parva, Adhyaya 249, Verse 2

तव तेजोग्निना देव प्रजा दह्यन्ति सर्वशः

ता दृष्ट्वा मम कारुण्यं मा कुप्यासां जगत्प्रभो

Mahabharata

Shanti Parva, Adhyaya 249, Verse 3

न कुप्ये न च मे कामो न भवेरन्प्रजा इति

लाघवार्थं धरण्यास्तु ततः संहार इष्यते

Mahabharata

Shanti Parva, Adhyaya 249, Verse 4

इयं हि मां सदा देवी भारार्ता समचोदयत्

संहारार्थं महादेव भारेणाप्सु निमज्जति

Mahabharata

Shanti Parva, Adhyaya 249, Verse 5

यदाहं नाधिगच्छामि बुद्ध्या बहु विचारयन्

संहारमासां वृद्धानां ततो मां क्रोध आविशत्

Mahabharata

Shanti Parva, Adhyaya 249, Verse 6

संहारान्तं प्रसीदस्व मा क्रुधस्त्रिदशेश्वर

मा प्रजाः स्थावरं चैव जङ्गमं च विनीनशः

Mahabharata

Shanti Parva, Adhyaya 249, Verse 7

पल्वलानि च सर्वाणि सर्वं चैव तृणोलपम्

स्थावरं जङ्गमं चैव भूतग्रामं चतुर्विधम्

Mahabharata

Shanti Parva, Adhyaya 249, Verse 8

तदेतद्भस्मसाद्भूतं जगत्सर्वमुपप्लुतम्

प्रसीद भगवन्साधो वर एष वृतो मया

Mahabharata

Shanti Parva, Adhyaya 249, Verse 9

नष्टा न पुनरेष्यन्ति प्रजा ह्येताः कथंचन

तस्मान्निवर्त्यतामेतत्तेजः स्वेनैव तेजसा

Mahabharata

Shanti Parva, Adhyaya 249, Verse 10

उपायमन्यं संपश्य प्रजानां हितकाम्यया

यथेमे जन्तवः सर्वे निवर्तेरन्परंतप

Mahabharata

Shanti Parva, Adhyaya 249, Verse 11

अभावमभिगच्छेयुरुत्सन्नप्रजनाः प्रजाः

अधिदैवनियुक्तोऽस्मि त्वया लोकेष्विहेश्वर

Mahabharata

Shanti Parva, Adhyaya 249, Verse 12

त्वद्भवं हि जगन्नाथ जगत्स्थावरजङ्गमम्

प्रसाद्य त्वां महादेव याचाम्यावृत्तिजाः प्रजाः

Mahabharata

Shanti Parva, Adhyaya 249, Verse 13

श्रुत्वा तु वचनं देवः स्थाणोर्नियतवाङ्मनाः

तेजस्तत्स्वं निजग्राह पुनरेवान्तरात्मना

Mahabharata

Shanti Parva, Adhyaya 249, Verse 14

ततोऽग्निमुपसंगृह्य भगवाँल्लोकपूजितः

प्रवृत्तिं च निवृत्तिं च कल्पयामास वै प्रभुः

Mahabharata

Shanti Parva, Adhyaya 249, Verse 15

उपसंहरतस्तस्य तमग्निं रोषजं तदा

प्रादुर्बभूव विश्वेभ्यः खेभ्यो नारी महात्मनः

Mahabharata

Shanti Parva, Adhyaya 249, Verse 16

कृष्णा रक्ताम्बरधरा रक्तनेत्रतलान्तरा

दिव्यकुण्डलसंपन्ना दिव्याभरणभूषिता

Mahabharata

Shanti Parva, Adhyaya 249, Verse 17

सा विनिःसृत्य वै खेभ्यो दक्षिणामाश्रिता दिशम्

ददृशातेऽथ तौ कन्यां देवौ विश्वेश्वरावुभौ

Mahabharata

Shanti Parva, Adhyaya 249, Verse 18

तामाहूय तदा देवो लोकानामादिरीश्वरः

मृत्यो इति महीपाल जहि चेमाः प्रजा इति

Mahabharata

Shanti Parva, Adhyaya 249, Verse 19

त्वं हि संहारबुद्ध्या मे चिन्तिता रुषितेन च

तस्मात्संहर सर्वास्त्वं प्रजाः सजडपण्डिताः

Mahabharata

Shanti Parva, Adhyaya 249, Verse 20

अविशेषेण चैव त्वं प्रजाः संहर भामिनि

मम त्वं हि नियोगेन श्रेयः परमवाप्स्यसि

Mahabharata

Shanti Parva, Adhyaya 249, Verse 21

एवमुक्ता तु सा देवी मृत्युः कमलमालिनी

प्रदध्यौ दुःखिता बाला साश्रुपातमतीव हि

Mahabharata

Shanti Parva, Adhyaya 249, Verse 22

पाणिभ्यां चैव जग्राह तान्यश्रूणि जनेश्वरः

मानवानां हितार्थाय ययाचे पुनरेव च