Shanti Parva, Adhyaya 248, Verse 1
य इमे पृथिवीपालाः शेरते पृथिवीतले
पृतनामध्य एते हि गतसत्त्वा महाबलाः
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
य इमे पृथिवीपालाः शेरते पृथिवीतले
पृतनामध्य एते हि गतसत्त्वा महाबलाः
एकैकशो भीमबला नागायुतबलास्तथा
एते हि निहताः संख्ये तुल्यतेजोबलैर्नरैः
नैषां पश्यामि हन्तारं प्राणिनां संयुगे पुरा
विक्रमेणोपसंपन्नास्तेजोबलसमन्विताः
अथ चेमे महाप्राज्ञ शेरते हि गतासवः
मृता इति च शब्दोऽयं वर्तत्येषु गतासुषु
इमे मृता नृपतयः प्रायशो भीमविक्रमाः
तत्र मे संशयो जातः कुतः संज्ञा मृता इति
कस्य मृत्युः कुतो मृत्युः केन मृत्युरिह प्रजाः
हरत्यमरसंकाश तन्मे ब्रूहि पितामह
पुरा कृतयुगे तात राजासीदविकम्पकः
स शत्रुवशमापन्नः संग्रामे क्षीणवाहनः
तत्र पुत्रो हरिर्नाम नारायणसमो बले
स शत्रुभिर्हतः संख्ये सबलः सपदानुगः
स राजा शत्रुवशगः पुत्रशोकसमन्वितः
यदृच्छयाशान्तिपरो ददर्श भुवि नारदम्
स तस्मै सर्वमाचष्ट यथा वृत्तं जनेश्वरः
शत्रुभिर्ग्रहणं संख्ये पुत्रस्य मरणं तथा
तस्य तद्वचनं श्रुत्वा नारदोऽथ तपोधनः
आख्यानमिदमाचष्ट पुत्रशोकापहं तदा
राजञ्शृणु समाख्यानमद्येदं बहुविस्तरम्
यथा वृत्तं श्रुतं चैव मयापि वसुधाधिप
प्रजाः सृष्ट्वा महातेजाः प्रजासर्गे पितामहः
अतीव वृद्धा बहुला नामृष्यत पुनः प्रजाः
न ह्यन्तरमभूत्किंचित्क्वचिज्जन्तुभिरच्युत
निरुच्छ्वासमिवोन्नद्धं त्रैलोक्यमभवन्नृप
तस्य चिन्ता समुत्पन्ना संहारं प्रति भूपते
चिन्तयन्नाध्यगच्छच्च संहारे हेतुकारणम्
तस्य रोषान्महाराज खेभ्योऽग्निरुदतिष्ठत
तेन सर्वा दिशो राजन्ददाह स पितामहः
ततो दिवं भुवं खं च जगच्च सचराचरम्
ददाह पावको राजन्भगवत्कोपसंभवः
तत्रादह्यन्त भूतानि जङ्गमानि ध्रुवाणि च
महता कोपवेगेन कुपिते प्रपितामहे
ततो हरिजटः स्थाणुर्वेदाध्वरपतिः शिवः
जगाद शरणं देवो ब्रह्माणं परवीरहा
तस्मिन्नभिगते स्थाणौ प्रजानां हितकाम्यया
अब्रवीद्वरदो देवो ज्वलन्निव तदा शिवम्
करवाण्यद्य कं कामं वरार्होऽसि मतो मम
कर्ता ह्यस्मि प्रियं शंभो तव यद्धृदि वर्तते