Shanti Parva, Adhyaya 247, Verse 1
भूतानां गुणसंख्यानं भूयः पुत्र निशामय
द्वैपायनमुखाद्भ्रष्टं श्लाघया परयानघ
Containing 13 sacred Sanskrit shlokas with multi-author commentaries and translations.
भूतानां गुणसंख्यानं भूयः पुत्र निशामय
द्वैपायनमुखाद्भ्रष्टं श्लाघया परयानघ
दीप्तानलनिभः प्राह भगवान्धूम्रवर्चसे
ततोऽहमपि वक्ष्यामि भूयः पुत्र निदर्शनम्
भूमेः स्थैर्यं पृथुत्वं च काठिन्यं प्रसवात्मता
गन्धो गुरुत्वं शक्तिश्च संघातः स्थापना धृतिः
अपां शैत्यं रसः क्लेदो द्रवत्वं स्नेहसौम्यता
जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा
अग्नेर्दुर्धर्षता तेजस्तापः पाकः प्रकाशनम्
शौचं रागो लघुस्तैक्ष्ण्यं दशमं चोर्ध्वभागिता
वायोरनियमः स्पर्शो वादस्थानं स्वतन्त्रता
बलं शैघ्र्यं च मोहश्च चेष्टा कर्मकृता भवः
आकाशस्य गुणः शब्दो व्यापित्वं छिद्रतापि च
अनाश्रयमनालम्बमव्यक्तमविकारिता
अप्रतीघातता चैव भूतत्वं विकृतानि च
गुणाः पञ्चाशतं प्रोक्ताः पञ्चभूतात्मभाविताः
चलोपपत्तिर्व्यक्तिश्च विसर्गः कल्पना क्षमा
सदसच्चाशुता चैव मनसो नव वै गुणाः
इष्टानिष्टविकल्पश्च व्यवसायः समाधिता
संशयः प्रतिपत्तिश्च बुद्धौ पञ्चेह ये गुणाः
कथं पञ्चगुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः
एतन्मे सर्वमाचक्ष्व सूक्ष्मज्ञानं पितामह
आहुः षष्टिं भूतगुणान्वै; भूतविशिष्टा नित्यविषक्ताः
भूतविषक्ताश्चाक्षरसृष्टाः; पुत्र न नित्यं तदिह वदन्ति
तत्पुत्र चिन्ताकलितं यदुक्त;मनागतं वै तव संप्रतीह
भूतार्थतत्त्वं तदवाप्य सर्वं; भूतप्रभावाद्भव शान्तबुद्धिः