Shanti Parva, Adhyaya 246, Verse 1
हृदि कामद्रुमश्चित्रो मोहसंचयसंभवः
क्रोधमानमहास्कन्धो विवित्सापरिमोचनः
Containing 15 sacred Sanskrit shlokas with multi-author commentaries and translations.
हृदि कामद्रुमश्चित्रो मोहसंचयसंभवः
क्रोधमानमहास्कन्धो विवित्सापरिमोचनः
तस्य चाज्ञानमाधारः प्रमादः परिषेचनम्
सोऽभ्यसूयापलाशो हि पुरादुष्कृतसारवान्
संमोहचिन्ताविटपः शोकशाखो भयंकरः
मोहनीभिः पिपासाभिर्लताभिः परिवेष्टितः
उपासते महावृक्षं सुलुब्धास्तं फलेप्सवः
आयासैः संयतः पाशैः फलानि परिवेष्टयन्
यस्तान्पाशान्वशे कृत्वा तं वृक्षमपकर्षति
गतः स दुःखयोरन्तं यतमानस्तयोर्द्वयोः
संरोहत्यकृतप्रज्ञः संतापेन हि पादपम्
स तमेव ततो हन्ति विषं ग्रस्तमिवातुरम्
तस्यानुशयमूलस्य मूलमुद्ध्रियते बलात्
त्यागाप्रमादाकृतिना साम्येन परमासिना
एवं यो वेद कामस्य केवलं परिकर्षणम्
वधं वै कामशास्त्रस्य स दुःखान्यतिवर्तते
शरीरं पुरमित्याहुः स्वामिनी बुद्धिरिष्यते
तत्र बुद्धेः शरीरस्थं मनो नामार्थचिन्तकम्
इन्द्रियाणि जनाः पौरास्तदर्थं तु परा कृतिः
तत्र द्वौ दारुणौ दोषौ तमो नाम रजस्तथा
यदर्थमुपजीवन्ति पौराः सहपुरेश्वराः
अद्वारेण तमेवार्थं द्वौ दोषावुपजीवतः
तत्र बुद्धिर्हि दुर्धर्षा मनः साधर्म्यमुच्यते
पौराश्चापि मनस्त्रस्तास्तेषामपि चला स्थितिः
यदर्थं बुद्धिरध्यास्ते न सोऽर्थः परिषीदति
यदर्थं पृथगध्यास्ते मनस्तत्परिषीदति
पृथग्भूतं यदा बुद्ध्या मनो भवति केवलम्
तत्रैनं विवृतं शून्यं रजः पर्यवतिष्ठते
तन्मनः कुरुते सख्यं रजसा सह संगतम्
तं चादाय जनं पौरं रजसे संप्रयच्छति