Mahabharata

Shanti Parva, Adhyaya 244

Containing 12 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 244, Verse 1

द्वंद्वानि मोक्षजिज्ञासुरर्थधर्मावनुष्ठितः

वक्त्रा गुणवता शिष्यः श्राव्यः पूर्वमिदं महत्

Mahabharata

Shanti Parva, Adhyaya 244, Verse 2

आकाशं मारुतो ज्योतिरापः पृथ्वी च पञ्चमी

भावाभावौ च कालश्च सर्वभूतेषु पञ्चसु

Mahabharata

Shanti Parva, Adhyaya 244, Verse 3

अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्

तस्य शब्दं गुणं विद्यान्मूर्तिशास्त्रविधानवित्

Mahabharata

Shanti Parva, Adhyaya 244, Verse 4

चरणं मारुतात्मेति प्राणापानौ च तन्मयौ

स्पर्शनं चेन्द्रियं विद्यात्तथा स्पर्शं च तन्मयम्

Mahabharata

Shanti Parva, Adhyaya 244, Verse 5

ततः पाकः प्रकाशश्च ज्योतिश्चक्षुश्च तन्मयम्

तस्य रूपं गुणं विद्यात्तमोऽन्ववसितात्मकम्

Mahabharata

Shanti Parva, Adhyaya 244, Verse 6

प्रक्लेदः क्षुद्रता स्नेह इत्यापो ह्युपदिश्यते

रसनं चेन्द्रियं जिह्वा रसश्चापां गुणो मतः

Mahabharata

Shanti Parva, Adhyaya 244, Verse 7

संघातः पार्थिवो धातुरस्थिदन्तनखानि च

श्मश्रु लोम च केशाश्च सिराः स्नायु च चर्म च

Mahabharata

Shanti Parva, Adhyaya 244, Verse 8

इन्द्रियं घ्राणसंज्ञानं नासिकेत्यभिधीयते

गन्धश्चैवेन्द्रियार्थोऽयं विज्ञेयः पृथिवीमयः

Mahabharata

Shanti Parva, Adhyaya 244, Verse 9

उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चोत्तराः

पञ्चानां भूतसंघानां संततिं मुनयो विदुः

Mahabharata

Shanti Parva, Adhyaya 244, Verse 10

मनो नवममेषां तु बुद्धिस्तु दशमी स्मृता

एकादशोऽन्तरात्मा च सर्वतः पर उच्यते

Mahabharata

Shanti Parva, Adhyaya 244, Verse 11

व्यवसायात्मिका बुद्धिर्मनो व्याकरणात्मकम्

कर्मानुमानाद्विज्ञेयः स जीवः क्षेत्रसंज्ञकः

Mahabharata

Shanti Parva, Adhyaya 244, Verse 12

एभिः कालाष्टमैर्भावैर्यः सर्वैः सर्वमन्वितम्

पश्यत्यकलुषं प्राज्ञः स मोहं नानुवर्तते