Mahabharata

Shanti Parva, Adhyaya 243

Containing 23 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 243, Verse 1

गन्धान्रसान्नानुरुन्ध्यात्सुखं वा; नालंकारांश्चाप्नुयात्तस्य तस्य

मानं च कीर्तिं च यशश्च नेच्छे;त्स वै प्रचारः पश्यतो ब्राह्मणस्य

Mahabharata

Shanti Parva, Adhyaya 243, Verse 2

सर्वान्वेदानधीयीत शुश्रूषुर्ब्रह्मचर्यवान्

ऋचो यजूंषि सामानि न तेन न स ब्राह्मणः

Mahabharata

Shanti Parva, Adhyaya 243, Verse 3

ज्ञातिवत्सर्वभूतानां सर्ववित्सर्ववेदवित्

नाकामो म्रियते जातु न तेन न च ब्राह्मणः

Mahabharata

Shanti Parva, Adhyaya 243, Verse 4

इष्टीश्च विविधाः प्राप्य क्रतूंश्चैवाप्तदक्षिणान्

नैव प्राप्नोति ब्राह्मण्यमभिध्यानात्कथंचन

Mahabharata

Shanti Parva, Adhyaya 243, Verse 5

यदा चायं न बिभेति यदा चास्मान्न बिभ्यति

यदा नेच्छति न द्वेष्टि ब्रह्म संपद्यते तदा

Mahabharata

Shanti Parva, Adhyaya 243, Verse 6

यदा न कुरुते भावं सर्वभूतेषु पापकम्

कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा

Mahabharata

Shanti Parva, Adhyaya 243, Verse 7

कामबन्धनमेवैकं नान्यदस्तीह बन्धनम्

कामबन्धनमुक्तो हि ब्रह्मभूयाय कल्पते

Mahabharata

Shanti Parva, Adhyaya 243, Verse 8

कामतो मुच्यमानस्तु धूम्राभ्रादिव चन्द्रमाः

विरजाः कालमाकाङ्क्षन्धीरो धैर्येण वर्तते

Mahabharata

Shanti Parva, Adhyaya 243, Verse 9

आपूर्यमाणमचलप्रतिष्ठं; समुद्रमापः प्रविशन्ति यद्वत्

स कामकान्तो न तु कामकामः; स वै लोकात्स्वर्गमुपैति देही

Mahabharata

Shanti Parva, Adhyaya 243, Verse 10

वेदस्योपनिषत्सत्यं सत्यस्योपनिषद्दमः

दमस्योपनिषद्दानं दानस्योपनिषत्तपः

Mahabharata

Shanti Parva, Adhyaya 243, Verse 11

तपसोपनिषत्त्यागस्त्यागस्योपनिषत्सुखम्

सुखस्योपनिषत्स्वर्गः स्वर्गस्योपनिषच्छमः

Mahabharata

Shanti Parva, Adhyaya 243, Verse 12

क्लेदनं शोकमनसोः संतापं तृष्णया सह

सत्त्वमिच्छसि संतोषाच्छान्तिलक्षणमुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 243, Verse 13

विशोको निर्ममः शान्तः प्रसन्नात्मात्मवित्तमः

षड्भिर्लक्षणवानेतैः समग्रः पुनरेष्यति

Mahabharata

Shanti Parva, Adhyaya 243, Verse 14

षड्भिः सत्त्वगुणोपेतैः प्राज्ञैरधिकमन्त्रिभिः

ये विदुः प्रेत्य चात्मानमिहस्थांस्तांस्तथा विदुः

Mahabharata

Shanti Parva, Adhyaya 243, Verse 15

अकृत्रिममसंहार्यं प्राकृतं निरुपस्कृतम्

अध्यात्मं सुकृतप्रज्ञः सुखमव्ययमश्नुते

Mahabharata

Shanti Parva, Adhyaya 243, Verse 16

निष्प्रचारं मनः कृत्वा प्रतिष्ठाप्य च सर्वतः

यामयं लभते तुष्टिं सा न शक्यमतोऽन्यथा

Mahabharata

Shanti Parva, Adhyaya 243, Verse 17

येन तृप्यत्यभुञ्जानो येन तुष्यत्यवित्तवान्

येनास्नेहो बलं धत्ते यस्तं वेद स वेदवित्

Mahabharata

Shanti Parva, Adhyaya 243, Verse 18

संगोप्य ह्यात्मनो द्वाराण्यपिधाय विचिन्तयन्

यो ह्यास्ते ब्राह्मणः शिष्टः स आत्मरतिरुच्यते

Mahabharata

Shanti Parva, Adhyaya 243, Verse 19

समाहितं परे तत्त्वे क्षीणकाममवस्थितम्

सर्वतः सुखमन्वेति वपुश्चान्द्रमसं यथा

Mahabharata

Shanti Parva, Adhyaya 243, Verse 20

सविशेषाणि भूतानि गुणांश्चाभजतो मुनेः

सुखेनापोह्यते दुःखं भास्करेण तमो यथा

Mahabharata

Shanti Parva, Adhyaya 243, Verse 21

तमतिक्रान्तकर्माणमतिक्रान्तगुणक्षयम्

ब्राह्मणं विषयाश्लिष्टं जरामृत्यू न विन्दतः

Mahabharata

Shanti Parva, Adhyaya 243, Verse 22

स यदा सर्वतो मुक्तः समः पर्यवतिष्ठते

इन्द्रियाणीन्द्रियार्थांश्च शरीरस्थोऽतिवर्तते

Mahabharata

Shanti Parva, Adhyaya 243, Verse 23

कारणं परमं प्राप्य अतिक्रान्तस्य कार्यताम्

पुनरावर्तनं नास्ति संप्राप्तस्य परात्परम्