Mahabharata

Shanti Parva, Adhyaya 242

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 242, Verse 1

यस्माद्धर्मात्परो धर्मो विद्यते नेह कश्चन

यो विशिष्टश्च धर्मेभ्यस्तं भवान्प्रब्रवीतु मे

Mahabharata

Shanti Parva, Adhyaya 242, Verse 2

धर्मं ते संप्रवक्ष्यामि पुराणमृषिसंस्तुतम्

विशिष्टं सर्वधर्मेभ्यस्तमिहैकमनाः शृणु

Mahabharata

Shanti Parva, Adhyaya 242, Verse 3

इन्द्रियाणि प्रमाथीनि बुद्ध्या संयम्य यत्नतः

सर्वतो निष्पतिष्णूनि पिता बालानिवात्मजान्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 4

मनसश्चेन्द्रियाणां च ह्यैकाग्र्यं परमं तपः

तज्ज्यायः सर्वधर्मेभ्यः स धर्मः पर उच्यते

Mahabharata

Shanti Parva, Adhyaya 242, Verse 5

तानि सर्वाणि संधाय मनःषष्ठानि मेधया

आत्मतृप्त इवासीत बहु चिन्त्यमचिन्तयन्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 6

गोचरेभ्यो निवृत्तानि यदा स्थास्यन्ति वेश्मनि

तदा त्वमात्मनात्मानं परं द्रक्ष्यसि शाश्वतम्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 7

सर्वात्मानं महात्मानं विधूममिव पावकम्

तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः

Mahabharata

Shanti Parva, Adhyaya 242, Verse 8

यथा पुष्पफलोपेतो बहुशाखो महाद्रुमः

आत्मनो नाभिजानीते क्व मे पुष्पं क्व मे फलम्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 9

एवमात्मा न जानीते क्व गमिष्ये कुतो न्वहम्

अन्यो ह्यत्रान्तरात्मास्ति यः सर्वमनुपश्यति

Mahabharata

Shanti Parva, Adhyaya 242, Verse 10

ज्ञानदीपेन दीप्तेन पश्यत्यात्मानमात्मना

दृष्ट्वा त्वमात्मनात्मानं निरात्मा भव सर्ववित्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 11

विमुक्तः सर्वपापेभ्यो मुक्तत्वच इवोरगः

परां बुद्धिमवाप्येह विपाप्मा विगतज्वरः

Mahabharata

Shanti Parva, Adhyaya 242, Verse 12

सर्वतःस्रोतसं घोरां नदीं लोकप्रवाहिनीम्

पञ्चेन्द्रियग्राहवतीं मनःसंकल्परोधसम्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 13

लोभमोहतृणच्छन्नां कामक्रोधसरीसृपाम्

सत्यतीर्थानृतक्षोभां क्रोधपङ्कां सरिद्वराम्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 14

अव्यक्तप्रभवां शीघ्रां दुस्तरामकृतात्मभिः

प्रतरस्व नदीं बुद्ध्या कामग्राहसमाकुलाम्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 15

संसारसागरगमां योनिपातालदुस्तराम्

आत्मजन्मोद्भवां तात जिह्वावर्तां दुरासदाम्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 16

यां तरन्ति कृतप्रज्ञा धृतिमन्तो मनीषिणः

तां तीर्णः सर्वतोमुक्तो विपूतात्मात्मविच्छुचिः

Mahabharata

Shanti Parva, Adhyaya 242, Verse 17

उत्तमां बुद्धिमास्थाय ब्रह्मभूयं गमिष्यसि

संतीर्णः सर्वसंक्लेशान्प्रसन्नात्मा विकल्मषः

Mahabharata

Shanti Parva, Adhyaya 242, Verse 18

भूमिष्ठानीव भूतानि पर्वतस्थो निशामय

अक्रुध्यन्नप्रहृष्यंश्च ननृशंसमतिस्तथा

ततो द्रक्ष्यसि भूतानां सर्वेषां प्रभवाप्ययौ

Mahabharata

Shanti Parva, Adhyaya 242, Verse 19

एवं वै सर्वधर्मेभ्यो विशिष्टं मेनिरे बुधाः

धर्मं धर्मभृतां श्रेष्ठ मुनयस्तत्त्वदर्शिनः

Mahabharata

Shanti Parva, Adhyaya 242, Verse 20

आत्मनोऽव्ययिनो ज्ञात्वा इदं पुत्रानुशासनम्

प्रयताय प्रवक्तव्यं हितायानुगताय च

Mahabharata

Shanti Parva, Adhyaya 242, Verse 21

आत्मज्ञानमिदं गुह्यं सर्वगुह्यतमं महत्

अब्रुवं यदहं तात आत्मसाक्षिकमञ्जसा

Mahabharata

Shanti Parva, Adhyaya 242, Verse 22

नैव स्त्री न पुमानेतन्नैव चेदं नपुंसकम्

अदुःखमसुखं ब्रह्म भूतभव्यभवात्मकम्

Mahabharata

Shanti Parva, Adhyaya 242, Verse 23

नैतज्ज्ञात्वा पुमान्स्त्री वा पुनर्भवमवाप्नुयात्

अभवप्रतिपत्त्यर्थमेतद्वर्त्म विधीयते

Mahabharata

Shanti Parva, Adhyaya 242, Verse 24

यथा मतानि सर्वाणि न चैतानि यथा तथा

कथितानि मया पुत्र भवन्ति न भवन्ति च

Mahabharata

Shanti Parva, Adhyaya 242, Verse 25

तत्प्रीतियुक्तेन गुणान्वितेन; पुत्रेण सत्पुत्रगुणान्वितेन

पृष्टो हीदं प्रीतिमता हितार्थं; ब्रूयात्सुतस्येह यदुक्तमेतत्