Mahabharata

Shanti Parva, Adhyaya 240

Containing 22 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 240, Verse 1

मनः प्रसृजते भावं बुद्धिरध्यवसायिनी

हृदयं प्रियाप्रिये वेद त्रिविधा कर्मचोदना

Mahabharata

Shanti Parva, Adhyaya 240, Verse 2

इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यः परमं मनः

मनसस्तु परा बुद्धिर्बुद्धेरात्मा परो मतः

Mahabharata

Shanti Parva, Adhyaya 240, Verse 3

बुद्धिरात्मा मनुष्यस्य बुद्धिरेवात्मनोऽऽत्मिका

यदा विकुरुते भावं तदा भवति सा मनः

Mahabharata

Shanti Parva, Adhyaya 240, Verse 4

इन्द्रियाणां पृथग्भावाद्बुद्धिर्विक्रियते ह्यणु

शृण्वती भवति श्रोत्रं स्पृशती स्पर्श उच्यते

Mahabharata

Shanti Parva, Adhyaya 240, Verse 5

पश्यन्ती भवते दृष्टी रसती रसनं भवेत्

जिघ्रती भवति घ्राणं बुद्धिर्विक्रियते पृथक्

Mahabharata

Shanti Parva, Adhyaya 240, Verse 6

इन्द्रियाणीति तान्याहुस्तेष्वदृश्याधितिष्ठति

तिष्ठती पुरुषे बुद्धिस्त्रिषु भावेषु वर्तते

Mahabharata

Shanti Parva, Adhyaya 240, Verse 7

कदाचिल्लभते प्रीतिं कदाचिदपि शोचते

न सुखेन न दुःखेन कदाचिदिह युज्यते

Mahabharata

Shanti Parva, Adhyaya 240, Verse 8

सेयं भावात्मिका भावांस्त्रीनेतानतिवर्तते

सरितां सागरो भर्ता महावेलामिवोर्मिमान्

Mahabharata

Shanti Parva, Adhyaya 240, Verse 9

यदा प्रार्थयते किंचित्तदा भवति सा मनः

अधिष्ठानानि वै बुद्ध्या पृथगेतानि संस्मरेत्

इन्द्रियाण्येव मेध्यानि विजेतव्यानि कृत्स्नशः

Mahabharata

Shanti Parva, Adhyaya 240, Verse 10

सर्वाण्येवानुपूर्व्येण यद्यन्नानुविधीयते

अविभागगता बुद्धिर्भावे मनसि वर्तते

प्रवर्तमानं तु रजः सत्त्वमप्यनुवर्तते

Mahabharata

Shanti Parva, Adhyaya 240, Verse 11

ये चैव भावा वर्तन्ते सर्व एष्वेव ते त्रिषु

अन्वर्थाः संप्रवर्तन्ते रथनेमिमरा इव

Mahabharata

Shanti Parva, Adhyaya 240, Verse 12

प्रदीपार्थं नरः कुर्यादिन्द्रियैर्बुद्धिसत्तमैः

निश्चरद्भिर्यथायोगमुदासीनैर्यदृच्छया

Mahabharata

Shanti Parva, Adhyaya 240, Verse 13

एवंस्वभावमेवेदमिति विद्वान्न मुह्यति

अशोचन्नप्रहृष्यंश्च नित्यं विगतमत्सरः

Mahabharata

Shanti Parva, Adhyaya 240, Verse 14

न ह्यात्मा शक्यते द्रष्टुमिन्द्रियैः कामगोचरैः

प्रवर्तमानैरनये दुर्धरैरकृतात्मभिः

Mahabharata

Shanti Parva, Adhyaya 240, Verse 15

तेषां तु मनसा रश्मीन्यदा सम्यङ्नियच्छति

तदा प्रकाशते ह्यात्मा घटे दीप इव ज्वलन्

सर्वेषामेव भूतानां तमस्यपगते यथा

Mahabharata

Shanti Parva, Adhyaya 240, Verse 16

यथा वारिचरः पक्षी न लिप्यति जले चरन्

एवमेव कृतप्रज्ञो न दोषैर्विषयांश्चरन्

असज्जमानः सर्वेषु न कथंचन लिप्यते

Mahabharata

Shanti Parva, Adhyaya 240, Verse 17

त्यक्त्वा पूर्वकृतं कर्म रतिर्यस्य सदात्मनि

सर्वभूतात्मभूतस्य गुणमार्गेष्वसज्जतः

Mahabharata

Shanti Parva, Adhyaya 240, Verse 18

सत्त्वमात्मा प्रसवति गुणान्वापि कदा च न

न गुणा विदुरात्मानं गुणान्वेद स सर्वदा

Mahabharata

Shanti Parva, Adhyaya 240, Verse 19

परिद्रष्टा गुणानां स स्रष्टा चैव यथातथम्

सत्त्वक्षेत्रज्ञयोरेतदन्तरं विद्धि सूक्ष्मयोः

Mahabharata

Shanti Parva, Adhyaya 240, Verse 20

सृजते तु गुणानेक एको न सृजते गुणान्

पृथग्भूतौ प्रकृत्या तौ संप्रयुक्तौ च सर्वदा

Mahabharata

Shanti Parva, Adhyaya 240, Verse 21

यथा मत्स्योऽद्भिरन्यः सन्संप्रयुक्तौ तथैव तौ

मशकोदुम्बरौ चापि संप्रयुक्तौ यथा सह

Mahabharata

Shanti Parva, Adhyaya 240, Verse 22

इषीका वा यथा मुञ्जे पृथक्च सह चैव च

तथैव सहितावेतावन्योन्यस्मिन्प्रतिष्ठितौ