Mahabharata

Shanti Parva, Adhyaya 239

Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 239, Verse 1

अध्यात्मं विस्तरेणेह पुनरेव वदस्व मे

यदध्यात्मं यथा चेदं भगवन्नृषिसत्तम

Mahabharata

Shanti Parva, Adhyaya 239, Verse 2

अध्यात्मं यदिदं तात पुरुषस्येह विद्यते

तत्तेऽहं संप्रवक्ष्यामि तस्य व्याख्यामिमां शृणु

Mahabharata

Shanti Parva, Adhyaya 239, Verse 3

भूमिरापस्तथा ज्योतिर्वायुराकाशमेव च

महाभूतानि भूतानां सागरस्योर्मयो यथा

Mahabharata

Shanti Parva, Adhyaya 239, Verse 4

प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः

तद्वन्महान्ति भूतानि यवीयःसु विकुर्वते

Mahabharata

Shanti Parva, Adhyaya 239, Verse 5

इति तन्मयमेवेदं सर्वं स्थावरजङ्गमम्

सर्गे च प्रलये चैव तस्मान्निर्दिश्यते तथा

Mahabharata

Shanti Parva, Adhyaya 239, Verse 6

महाभूतानि पञ्चैव सर्वभूतेषु भूतकृत्

अकरोत्तात वैषम्यं यस्मिन्यदनुपश्यति

Mahabharata

Shanti Parva, Adhyaya 239, Verse 7

अकरोद्यच्छरीरेषु कथं तदुपलक्षयेत्

इन्द्रियाणि गुणाः केचित्कथं तानुपलक्षयेत्

Mahabharata

Shanti Parva, Adhyaya 239, Verse 8

एतत्ते वर्तयिष्यामि यथावदिह दर्शनम्

शृणु तत्त्वमिहैकाग्रो यथातत्त्वं यथा च तत्

Mahabharata

Shanti Parva, Adhyaya 239, Verse 9

शब्दः श्रोत्रं तथा खानि त्रयमाकाशसंभवम्

प्राणश्चेष्टा तथा स्पर्श एते वायुगुणास्त्रयः

Mahabharata

Shanti Parva, Adhyaya 239, Verse 10

रूपं चक्षुर्विपाकश्च त्रिधा ज्योतिर्विधीयते

रसोऽथ रसनं स्नेहो गुणास्त्वेते त्रयोऽम्भसाम्

Mahabharata

Shanti Parva, Adhyaya 239, Verse 11

घ्रेयं घ्राणं शरीरं च भूमेरेते गुणास्त्रयः

एतावानिन्द्रियग्रामो व्याख्यातः पाञ्चभौतिकः

Mahabharata

Shanti Parva, Adhyaya 239, Verse 12

वायोः स्पर्शो रसोऽद्भ्यश्च ज्योतिषो रूपमुच्यते

आकाशप्रभवः शब्दो गन्धो भूमिगुणः स्मृतः

Mahabharata

Shanti Parva, Adhyaya 239, Verse 13

मनो बुद्धिश्च भावश्च त्रय एतेऽऽत्मयोनिजाः

न गुणानतिवर्तन्ते गुणेभ्यः परमा मताः

Mahabharata

Shanti Parva, Adhyaya 239, Verse 14

इन्द्रियाणि नरे पञ्च षष्ठं तु मन उच्यते

सप्तमीं बुद्धिमेवाहुः क्षेत्रज्ञं पुनरष्टमम्

Mahabharata

Shanti Parva, Adhyaya 239, Verse 15

चक्षुरालोचनायैव संशयं कुरुते मनः

बुद्धिरध्यवसानाय साक्षी क्षेत्रज्ञ उच्यते

Mahabharata

Shanti Parva, Adhyaya 239, Verse 16

रजस्तमश्च सत्त्वं च त्रय एते स्वयोनिजाः

समाः सर्वेषु भूतेषु तद्गुणेषूपलक्षयेत्

Mahabharata

Shanti Parva, Adhyaya 239, Verse 17

यथा कूर्म इहाङ्गानि प्रसार्य विनियच्छति

एवमेवेन्द्रियग्रामं बुद्धिः सृष्ट्वा नियच्छति

Mahabharata

Shanti Parva, Adhyaya 239, Verse 18

यदूर्ध्वं पादतलयोरवाङ्मूर्ध्नश्च पश्यति

एतस्मिन्नेव कृत्ये वै वर्तते बुद्धिरुत्तमा

Mahabharata

Shanti Parva, Adhyaya 239, Verse 19

गुणान्नेनीयते बुद्धिर्बुद्धिरेवेन्द्रियाण्यपि

मनःषष्ठानि सर्वाणि बुद्ध्यभावे कुतो गुणाः

Mahabharata

Shanti Parva, Adhyaya 239, Verse 20

तत्र यत्प्रीतिसंयुक्तं किंचिदात्मनि लक्षयेत्

प्रशान्तमिव संशुद्धं सत्त्वं तदुपधारयेत्

Mahabharata

Shanti Parva, Adhyaya 239, Verse 21

यत्तु संतापसंयुक्तं काये मनसि वा भवेत्

रजः प्रवर्तकं तत्स्यात्सततं हारि देहिनाम्

Mahabharata

Shanti Parva, Adhyaya 239, Verse 22

यत्तु संमोहसंयुक्तमव्यक्तविषयं भवेत्

अप्रतर्क्यमविज्ञेयं तमस्तदुपधार्यताम्

Mahabharata

Shanti Parva, Adhyaya 239, Verse 23

प्रहर्षः प्रीतिरानन्दः साम्यं स्वस्थात्मचित्तता

अकस्माद्यदि वा कस्माद्वर्तते सात्त्विको गुणः

Mahabharata

Shanti Parva, Adhyaya 239, Verse 24

अभिमानो मृषावादो लोभो मोहस्तथाक्षमा

लिङ्गानि रजसस्तानि वर्तन्ते हेत्वहेतुतः

Mahabharata

Shanti Parva, Adhyaya 239, Verse 25

तथा मोहः प्रमादश्च तन्द्री निद्राप्रबोधिता

कथंचिदभिवर्तन्ते विज्ञेयास्तामसा गुणाः