Mahabharata

Shanti Parva, Adhyaya 237

Containing 36 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 237, Verse 1

वर्तमानस्तथैवात्र वानप्रस्थाश्रमे यथा

योक्तव्योऽऽत्मा यथा शक्त्या परं वै काङ्क्षता पदम्

Mahabharata

Shanti Parva, Adhyaya 237, Verse 2

प्राप्य संस्कारमेताभ्यामाश्रमाभ्यां ततः परम्

यत्कार्यं परमार्थार्थं तदिहैकमनाः शृणु

Mahabharata

Shanti Parva, Adhyaya 237, Verse 3

कषायं पाचयित्वा तु श्रेणिस्थानेषु च त्रिषु

प्रव्रजेच्च परं स्थानं परिव्रज्यामनुत्तमाम्

Mahabharata

Shanti Parva, Adhyaya 237, Verse 4

तद्भवानेवमभ्यस्य वर्ततां श्रूयतां तथा

एक एव चरेन्नित्यं सिद्ध्यर्थमसहायवान्

Mahabharata

Shanti Parva, Adhyaya 237, Verse 5

एकश्चरति यः पश्यन्न जहाति न हीयते

अनग्निरनिकेतः स्याद्ग्राममन्नार्थमाश्रयेत्

Mahabharata

Shanti Parva, Adhyaya 237, Verse 6

अश्वस्तनविधानः स्यान्मुनिर्भावसमन्वितः

लघ्वाशी नियताहारः सकृदन्ननिषेविता

Mahabharata

Shanti Parva, Adhyaya 237, Verse 7

कपालं वृक्षमूलानि कुचेलमसहायता

उपेक्षा सर्वभूतानामेतावद्भिक्षुलक्षणम्

Mahabharata

Shanti Parva, Adhyaya 237, Verse 8

यस्मिन्वाचः प्रविशन्ति कूपे प्राप्ताः शिला इव

न वक्तारं पुनर्यान्ति स कैवल्याश्रमे वसेत्

Mahabharata

Shanti Parva, Adhyaya 237, Verse 9

नैव पश्येन्न शृणुयादवाच्यं जातु कस्यचित्

ब्राह्मणानां विशेषेण नैव ब्रूयात्कथंचन

Mahabharata

Shanti Parva, Adhyaya 237, Verse 10

यद्ब्राह्मणस्य कुशलं तदेव सततं वदेत्

तूष्णीमासीत निन्दायां कुर्वन्भेषजमात्मनः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 11

येन पूर्णमिवाकाशं भवत्येकेन सर्वदा

शून्यं येन जनाकीर्णं तं देवा ब्राह्मणं विदुः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 12

येन केनचिदाच्छन्नो येन केनचिदाशितः

यत्रक्वचनशायी च तं देवा ब्राह्मणं विदुः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 13

अहेरिव गणाद्भीतः सौहित्यान्नरकादिव

कुणपादिव च स्त्रीभ्यस्तं देवा ब्राह्मणं विदुः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 14

न क्रुध्येन्न प्रहृष्येच्च मानितोऽमानितश्च यः

सर्वभूतेष्वभयदस्तं देवा ब्राह्मणं विदुः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 15

नाभिनन्देत मरणं नाभिनन्देत जीवितम्

कालमेव प्रतीक्षेत निदेशं भृतको यथा

Mahabharata

Shanti Parva, Adhyaya 237, Verse 16

अनभ्याहतचित्तः स्यादनभ्याहतवाक्तथा

निर्मुक्तः सर्वपापेभ्यो निरमित्रस्य किं भयम्

Mahabharata

Shanti Parva, Adhyaya 237, Verse 17

अभयं सर्वभूतेभ्यो भूतानामभयं यतः

तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन

Mahabharata

Shanti Parva, Adhyaya 237, Verse 18

यथा नागपदेऽन्यानि पदानि पदगामिनाम्

सर्वाण्येवापिधीयन्ते पदजातानि कौञ्जरे

Mahabharata

Shanti Parva, Adhyaya 237, Verse 19

एवं सर्वमहिंसायां धर्मार्थमपिधीयते

अमृतः स नित्यं वसति योऽहिंसां प्रतिपद्यते

Mahabharata

Shanti Parva, Adhyaya 237, Verse 20

अहिंसकः समः सत्यो धृतिमान्नियतेन्द्रियः

शरण्यः सर्वभूतानां गतिमाप्नोत्यनुत्तमाम्

Mahabharata

Shanti Parva, Adhyaya 237, Verse 21

एवं प्रज्ञानतृप्तस्य निर्भयस्य मनीषिणः

न मृत्युरतिगो भावः स मृत्युमधिगच्छति

Mahabharata

Shanti Parva, Adhyaya 237, Verse 22

विमुक्तं सर्वसङ्गेभ्यो मुनिमाकाशवत्स्थितम्

अस्वमेकचरं शान्तं तं देवा ब्राह्मणं विदुः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 23

जीवितं यस्य धर्मार्थं धर्मोऽरत्यर्थमेव च

अहोरात्राश्च पुण्यार्थं तं देवा ब्राह्मणं विदुः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 24

निराशिषमनारम्भं निर्नमस्कारमस्तुतिम्

अक्षीणं क्षीणकर्माणं तं देवा ब्राह्मणं विदुः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 25

सर्वाणि भूतानि सुखे रमन्ते; सर्वाणि दुःखस्य भृशं त्रसन्ति

तेषां भयोत्पादनजातखेदः; कुर्यान्न कर्माणि हि श्रद्दधानः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 26

दानं हि भूताभयदक्षिणायाः; सर्वाणि दानान्यधितिष्ठतीह

तीक्ष्णां तनुं यः प्रथमं जहाति; सोऽनन्तमाप्नोत्यभयं प्रजाभ्यः

Mahabharata

Shanti Parva, Adhyaya 237, Verse 27

उत्तान आस्येन हविर्जुहोति; लोकस्य नाभिर्जगतः प्रतिष्ठा

तस्याङ्गमङ्गानि कृताकृतं च; वैश्वानरः सर्वमेव प्रपेदे

Mahabharata

Shanti Parva, Adhyaya 237, Verse 28

प्रादेशमात्रे हृदि निश्रितं य;त्तस्मिन्प्राणानात्मयाजी जुहोति

तस्याग्निहोत्रं हुतमात्मसंस्थं; सर्वेषु लोकेषु सदैवतेषु

Mahabharata

Shanti Parva, Adhyaya 237, Verse 29

दैवं त्रिधातुं त्रिवृतं सुपर्णं; ये विद्युरग्र्यं परमार्थतां च

ते सर्वलोकेषु महीयमाना; देवाः समर्थाः सुकृतं व्रजन्ति

Mahabharata

Shanti Parva, Adhyaya 237, Verse 30

वेदांश्च वेद्यं च विधिं च कृत्स्न;मथो निरुक्तं परमार्थतां च

सर्वं शरीरात्मनि यः प्रवेद; तस्मै स्म देवाः स्पृहयन्ति नित्यम्