Mahabharata

Shanti Parva, Adhyaya 235

Containing 27 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 235, Verse 1

द्वितीयमायुषो भागं गृहमेधी गृहे वसेत्

धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य सुव्रतः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 2

गृहस्थवृत्तयश्चैव चतस्रः कविभिः स्मृताः

कुसूलधान्यः प्रथमः कुम्भीधान्यस्त्वनन्तरम्

Mahabharata

Shanti Parva, Adhyaya 235, Verse 3

अश्वस्तनोऽथ कापोतीमाश्रितो वृत्तिमाहरेत्

तेषां परः परो ज्यायान्धर्मतो लोकजित्तमः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 4

षट्कर्मा वर्तयत्येकस्त्रिभिरन्यः प्रवर्तते

द्वाभ्यामेकश्चतुर्थस्तु ब्रह्मसत्रे व्यवस्थितः

गृहमेधिव्रतान्यत्र महान्तीह प्रचक्षते

Mahabharata

Shanti Parva, Adhyaya 235, Verse 5

नात्मार्थं पाचयेदन्नं न वृथा घातयेत्पशून्

प्राणी वा यदि वाप्राणी संस्कारं यजुषार्हति

Mahabharata

Shanti Parva, Adhyaya 235, Verse 6

न दिवा प्रस्वपेज्जातु न पूर्वापररात्रयोः

न भुञ्जीतान्तराकाले नानृतावाह्वयेत्स्त्रियम्

Mahabharata

Shanti Parva, Adhyaya 235, Verse 7

नास्यानश्नन्वसेद्विप्रो गृहे कश्चिदपूजितः

तथास्यातिथयः पूज्या हव्यकव्यवहाः सदा

Mahabharata

Shanti Parva, Adhyaya 235, Verse 8

वेदविद्याव्रतस्नाताः श्रोत्रिया वेदपारगाः

स्वधर्मजीविनो दान्ताः क्रियावन्तस्तपस्विनः

तेषां हव्यं च कव्यं चाप्यर्हणार्थं विधीयते

Mahabharata

Shanti Parva, Adhyaya 235, Verse 9

न खरैः संप्रयातस्य स्वधर्माज्ञानकस्य च

अपविद्धाग्निहोत्रस्य गुरोर्वालीककारिणः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 10

संविभागोऽत्र भूतानां सर्वेषामेव शिष्यते

तथैवापचमानेभ्यः प्रदेयं गृहमेधिना

Mahabharata

Shanti Parva, Adhyaya 235, Verse 11

विघसाशी भवेन्नित्यं नित्यं चामृतभोजनः

अमृतं यज्ञशेषं स्याद्भोजनं हविषा समम्

भृत्यशेषं तु योऽश्नाति तमाहुर्विघसाशिनम्

Mahabharata

Shanti Parva, Adhyaya 235, Verse 12

स्वदारनिरतो दान्तो ह्यनसूयुर्जितेन्द्रियः

ऋत्विक्पुरोहिताचार्यैर्मातुलातिथिसंश्रितैः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 13

वृद्धबालातुरैर्वैद्यैर्ज्ञातिसंबन्धिबान्धवैः

मातापितृभ्यां जामीभिर्भ्रात्रा पुत्रेण भार्यया

Mahabharata

Shanti Parva, Adhyaya 235, Verse 14

दुहित्रा दासवर्गेण विवादं न समाचरेत्

एतान्विमुच्य संवादान्सर्वपापैः प्रमुच्यते

Mahabharata

Shanti Parva, Adhyaya 235, Verse 15

एतैर्जितैस्तु जयति सर्वाँल्लोकान्न संशयः

आचार्यो ब्रह्मलोकेशः प्राजापत्ये पिता प्रभुः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 16

अतिथिस्त्विन्द्रलोकेशो देवलोकस्य चर्त्विजः

जामयोऽप्सरसां लोके वैश्वदेवे तु ज्ञातयः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 17

संबन्धिबान्धवा दिक्षु पृथिव्यां मातृमातुलौ

वृद्धबालातुरकृशास्त्वाकाशे प्रभविष्णवः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 18

भ्राता ज्येष्ठः समः पित्रा भार्या पुत्रः स्वका तनुः

छाया स्वा दाशवर्गस्तु दुहिता कृपणं परम्

Mahabharata

Shanti Parva, Adhyaya 235, Verse 19

तस्मादेतैरधिक्षिप्तः सहेन्नित्यमसंज्वरः

गृहधर्मरतो विद्वान्धर्मनित्यो जितक्लमः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 20

न चार्थबद्धः कर्माणि धर्मं वा कंचिदाचरेत्

गृहस्थवृत्तयस्तिस्रस्तासां निःश्रेयसं परम्

Mahabharata

Shanti Parva, Adhyaya 235, Verse 21

परस्परं तथैवाहुश्चातुराश्रम्यमेव तत्

ये चोक्ता नियमास्तेषां सर्वं कार्यं बुभूषता

Mahabharata

Shanti Parva, Adhyaya 235, Verse 22

कुम्भीधान्यैरुञ्छशिलैः कापोतीं चास्थितैस्तथा

यस्मिंश्चैते वसन्त्यर्हास्तद्राष्ट्रमभिवर्धते

Mahabharata

Shanti Parva, Adhyaya 235, Verse 23

दश पूर्वान्दश परान्पुनाति च पितामहान्

गृहस्थवृत्तयस्त्वेता वर्तयेद्यो गतव्यथः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 24

स चक्रचरलोकानां सदृशीं प्राप्नुयाद्गतिम्

यतेन्द्रियाणामथ वा गतिरेषा विधीयते

Mahabharata

Shanti Parva, Adhyaya 235, Verse 25

स्वर्गलोको गृहस्थानामुदारमनसां हितः

स्वर्गो विमानसंयुक्तो वेददृष्टः सुपुष्पितः

Mahabharata

Shanti Parva, Adhyaya 235, Verse 26

स्वर्गलोके गृहस्थानां प्रतिष्ठा नियतात्मनाम्

ब्रह्मणा विहिता श्रेणिरेषा यस्मात्प्रमुच्यते

द्वितीयं क्रमशः प्राप्य स्वर्गलोके महीयते

Mahabharata

Shanti Parva, Adhyaya 235, Verse 27

अतः परं परममुदारमाश्रमं; तृतीयमाहुस्त्यजतां कलेवरम्

वनौकसां गृहपतिनामनुत्तमं; शृणुष्वैतत्क्लिष्टशरीरकारिणाम्