Mahabharata

Shanti Parva, Adhyaya 234

Containing 29 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 234, Verse 1

क्षरात्प्रभृति यः सर्गः सगुणानीन्द्रियाणि च

बुद्ध्यैश्वर्याभिसर्गार्थं यद्ध्यानं चात्मनः शुभम्

Mahabharata

Shanti Parva, Adhyaya 234, Verse 2

भूय एव तु लोकेऽस्मिन्सद्वृत्तिं वृत्तिहैतुकीम्

यया सन्तः प्रवर्तन्ते तदिच्छाम्यनुवर्णितम्

Mahabharata

Shanti Parva, Adhyaya 234, Verse 3

वेदे वचनमुक्तं तु कुरु कर्म त्यजेति च

कथमेतद्विजानीयां तच्च व्याख्यातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 234, Verse 4

लोकवृत्तान्ततत्त्वज्ञः पूतोऽहं गुरुशासनात्

कृत्वा बुद्धिं वियुक्तात्मा त्यक्ष्याम्यात्मानमव्यथः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 5

यैषा वै विहिता वृत्तिः पुरस्ताद्ब्रह्मणा स्वयम्

एषा पूर्वतरैः सद्भिराचीर्णा परमर्षिभिः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 6

ब्रह्मचर्येण वै लोकाञ्जयन्ति परमर्षयः

आत्मनश्च हृदि श्रेयस्त्वन्विच्छ मनसात्मनि

Mahabharata

Shanti Parva, Adhyaya 234, Verse 7

वने मूलफलाशी च तप्यन्सुविपुलं तपः

पुण्यायतनचारी च भूतानामविहिंसकः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 8

विधूमे सन्नमुसले वानप्रस्थप्रतिश्रये

काले प्राप्ते चरन्भैक्षं कल्पते ब्रह्मभूयसे

Mahabharata

Shanti Parva, Adhyaya 234, Verse 9

निःस्तुतिर्निर्नमस्कारः परित्यज्य शुभाशुभे

अरण्ये विचरैकाकी येन केनचिदाशितः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 10

यदिदं वेदवचनं लोकवादे विरुध्यते

प्रमाणे चाप्रमाणे च विरुद्धे शास्त्रता कुतः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 11

इत्येतच्छ्रोतुमिच्छामि भगवान्प्रब्रवीतु मे

कर्मणामविरोधेन कथमेतत्प्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 234, Verse 12

इत्युक्तः प्रत्युवाचेदं गन्धवत्याः सुतः सुतम्

ऋषिस्तत्पूजयन्वाक्यं पुत्रस्यामिततेजसः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 13

गृहस्थो ब्रह्मचारी च वानप्रस्थोऽथ भिक्षुकः

यथोक्तकारिणः सर्वे गच्छन्ति परमां गतिम्

Mahabharata

Shanti Parva, Adhyaya 234, Verse 14

एको य आश्रमानेताननुतिष्ठेद्यथाविधि

अकामद्वेषसंयुक्तः स परत्र महीयते

Mahabharata

Shanti Parva, Adhyaya 234, Verse 15

चतुष्पदी हि निःश्रेणी ब्रह्मण्येषा प्रतिष्ठिता

एतामाश्रित्य निःश्रेणीं ब्रह्मलोके महीयते

Mahabharata

Shanti Parva, Adhyaya 234, Verse 16

आयुषस्तु चतुर्भागं ब्रह्मचार्यनसूयकः

गुरौ वा गुरुपुत्रे वा वसेद्धर्मार्थकोविदः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 17

कर्मातिरेकेण गुरोरध्येतव्यं बुभूषता

दक्षिणो नापवादी स्यादाहूतो गुरुमाश्रयेत्

Mahabharata

Shanti Parva, Adhyaya 234, Verse 18

जघन्यशायी पूर्वं स्यादुत्थायी गुरुवेश्मनि

यच्च शिष्येण कर्तव्यं कार्यं दासेन वा पुनः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 19

कृतमित्येव तत्सर्वं कृत्वा तिष्ठेत पार्श्वतः

किंकरः सर्वकारी च सर्वकर्मसु कोविदः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 20

शुचिर्दक्षो गुणोपेतो ब्रूयादिषुरिवात्वरः

चक्षुषा गुरुमव्यग्रो निरीक्षेत जितेन्द्रियः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 21

नाभुक्तवति चाश्नीयादपीतवति नो पिबेत्

न तिष्ठति तथासीत नासुप्ते प्रस्वपेत च

Mahabharata

Shanti Parva, Adhyaya 234, Verse 22

उत्तानाभ्यां च पाणिभ्यां पादावस्य मृदु स्पृशेत्

दक्षिणं दक्षिणेनैव सव्यं सव्येन पीडयेत्

Mahabharata

Shanti Parva, Adhyaya 234, Verse 23

अभिवाद्य गुरुं ब्रूयादधीष्व भगवन्निति

इदं करिष्ये भगवन्निदं चापि कृतं मया

Mahabharata

Shanti Parva, Adhyaya 234, Verse 24

इति सर्वमनुज्ञाप्य निवेद्य गुरवे धनम्

कुर्यात्कृत्वा च तत्सर्वमाख्येयं गुरवे पुनः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 25

यांस्तु गन्धान्रसान्वापि ब्रह्मचारी न सेवते

सेवेत तान्समावृत्त इति धर्मेषु निश्चयः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 26

ये केचिद्विस्तरेणोक्ता नियमा ब्रह्मचारिणः

तान्सर्वाननुगृह्णीयाद्भवेच्चानपगो गुरोः

Mahabharata

Shanti Parva, Adhyaya 234, Verse 27

स एवं गुरवे प्रीतिमुपहृत्य यथाबलम्

आश्रमेष्वाश्रमेष्वेवं शिष्यो वर्तेत कर्मणा

Mahabharata

Shanti Parva, Adhyaya 234, Verse 28

वेदव्रतोपवासेन चतुर्थे चायुषो गते

गुरवे दक्षिणां दत्त्वा समावर्तेद्यथाविधि

Mahabharata

Shanti Parva, Adhyaya 234, Verse 29

धर्मलब्धैर्युतो दारैरग्नीनुत्पाद्य धर्मतः

द्वितीयमायुषो भागं गृहमेधिव्रती भवेत्