Shanti Parva, Adhyaya 233, Verse 1
यदिदं वेदवचनं कुरु कर्म त्यजेति च
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा
Containing 20 sacred Sanskrit shlokas with multi-author commentaries and translations.
यदिदं वेदवचनं कुरु कर्म त्यजेति च
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा
एतद्वै श्रोतुमिच्छामि तद्भवान्प्रब्रवीतु मे
एतत्त्वन्योन्यवैरूप्ये वर्तते प्रतिकूलतः
इत्युक्तः प्रत्युवाचेदं पराशरसुतः सुतम्
कर्मविद्यामयावेतौ व्याख्यास्यामि क्षराक्षरौ
यां दिशं विद्यया यान्ति यां च गच्छन्ति कर्मणा
शृणुष्वैकमनाः पुत्र गह्वरं ह्येतदन्तरम्
अस्ति धर्म इति प्रोक्तं नास्तीत्यत्रैव यो वदेत्
तस्य पक्षस्य सदृशमिदं मम भवेदथ
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः
प्रवृत्तिलक्षणो धर्मो निवृत्तौ च सुभाषितः
कर्मणा बध्यते जन्तुर्विद्यया तु प्रमुच्यते
तस्मात्कर्म न कुर्वन्ति यतयः पारदर्शिनः
कर्मणा जायते प्रेत्य मूर्तिमान्षोडशात्मकः
विद्यया जायते नित्यमव्ययो ह्यव्ययात्मकः
कर्म त्वेके प्रशंसन्ति स्वल्पबुद्धितरा नराः
तेन ते देहजालानि रमयन्त उपासते
ये तु बुद्धिं परां प्राप्ता धर्मनैपुण्यदर्शिनः
न ते कर्म प्रशंसन्ति कूपं नद्यां पिबन्निव
कर्मणः फलमाप्नोति सुखदुःखे भवाभवौ
विद्यया तदवाप्नोति यत्र गत्वा न शोचति
यत्र गत्वा न म्रियते यत्र गत्वा न जायते
न जीर्यते यत्र गत्वा यत्र गत्वा न वर्धते
यत्र तद्ब्रह्म परममव्यक्तमजरं ध्रुवम्
अव्याहतमनायासममृतं चावियोगि च
द्वंद्वैर्यत्र न बाध्यन्ते मानसेन च कर्मणा
समाः सर्वत्र मैत्राश्च सर्वभूतहिते रताः
विद्यामयोऽन्यः पुरुषस्तात कर्ममयोऽपरः
विद्धि चन्द्रमसं दर्शे सूक्ष्मया कलया स्थितम्
तदेतदृषिणा प्रोक्तं विस्तरेणानुमीयते
नवजं शशिनं दृष्ट्वा वक्रं तन्तुमिवाम्बरे
एकादशविकारात्मा कलासंभारसंभृतः
मूर्तिमानिति तं विद्धि तात कर्मगुणात्मकम्
देवो यः संश्रितस्तस्मिन्नब्बिन्दुरिव पुष्करे
क्षेत्रज्ञं तं विजानीयान्नित्यं त्यागजितात्मकम्
तमो रजश्च सत्त्वं च विद्धि जीवगुणानिमान्
जीवमात्मगुणं विद्यादात्मानं परमात्मनः
सचेतनं जीवगुणं वदन्ति; स चेष्टते चेष्टयते च सर्वम्
ततः परं क्षेत्रविदो वदन्ति; प्रावर्तयद्यो भुवनानि सप्त