Shanti Parva, Adhyaya 232, Verse 1
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः
सांख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया
Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.
पृच्छतस्तव सत्पुत्र यथावदिह तत्त्वतः
सांख्यन्यायेन संयुक्तं यदेतत्कीर्तितं मया
योगकृत्यं तु ते कृत्स्नं वर्तयिष्यामि तच्छृणु
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः
आत्मनो ध्यायिनस्तात ज्ञानमेतदनुत्तमम्
तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना
आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा
योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः
कामं क्रोधं च लोभं च भयं स्वप्नं च पञ्चमम्
क्रोधं शमेन जयति कामं संकल्पवर्जनात्
सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति
धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा
चक्षुः श्रोत्रे च मनसा मनो वाचं च कर्मणा
अप्रमादाद्भयं जह्याल्लोभं प्राज्ञोपसेवनात्
एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः
अग्नींश्च ब्राह्मणांश्चार्चेद्देवताः प्रणमेत च
वर्जयेद्रुषितां वाचं हिंसायुक्तां मनोनुगाम्
ब्रह्म तेजोमयं शुक्रं यस्य सर्वमिदं रसः
एकस्य भूतं भूतस्य द्वयं स्थावरजङ्गमम्
ध्यानमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा
शौचमाहारसंशुद्धिरिन्द्रियाणां च निग्रहः
एतैर्विवर्धते तेजः पाप्मानं चापकर्षति
सिध्यन्ति चास्य सर्वार्था विज्ञानं च प्रवर्तते
समः सर्वेषु भूतेषु लब्धालब्धेन वर्तयन्
धुतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः
कामक्रोधौ वशे कृत्वा निनीषेद्ब्रह्मणः पदम्
मनसश्चेन्द्रियाणां च कृत्वैकाग्र्यं समाहितः
प्राग्रात्रापररात्रेषु धारयेन्मन आत्मना
जन्तोः पञ्चेन्द्रियस्यास्य यदेकं छिद्रमिन्द्रियम्
ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम्
मनस्तु पूर्वमादद्यात्कुमीनानिव मत्स्यहा
ततः श्रोत्रं ततश्चक्षुर्जिह्वां घ्राणं च योगवित्
तत एतानि संयम्य मनसि स्थापयेद्यतिः
तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत्
पञ्च ज्ञानेन संधाय मनसि स्थापयेद्यतिः
यदैतान्यवतिष्ठन्ते मनःषष्ठानि चात्मनि
प्रसीदन्ति च संस्थाय तदा ब्रह्म प्रकाशते
विधूम इव दीप्तार्चिरादित्य इव दीप्तिमान्
वैद्युतोऽग्निरिवाकाशे पश्यत्यात्मानमात्मना
सर्वं च तत्र सर्वत्र व्यापकत्वाच्च दृश्यते
तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः
धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः
एवं परिमितं कालमाचरन्संशितव्रतः
आसीनो हि रहस्येको गच्छेदक्षरसात्म्यताम्
प्रमोहो भ्रम आवर्तो घ्राणश्रवणदर्शने
अद्भुतानि रसस्पर्शे शीतोष्णे मारुताकृतिः
प्रतिभामुपसर्गांश्चाप्युपसंगृह्य योगतः
तांस्तत्त्वविदनादृत्य स्वात्मनैव निवर्तयेत्
कुर्यात्परिचयं योगे त्रैकाल्यं नियतो मुनिः
गिरिशृङ्गे तथा चैत्ये वृक्षाग्रेषु च योजजेत्
संनियम्येन्द्रियग्रामं गोष्ठे भाण्डमना इव
एकाग्रश्चिन्तयेन्नित्यं योगान्नोद्वेजयेन्मनः
येनोपायेन शक्येत संनियन्तुं चलं मनः
तं तं युक्तो निषेवेत न चैव विचलेत्ततः
शून्या गिरिगुहाश्चैव देवतायतनानि च
शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत्
नाभिष्वजेत्परं वाचा कर्मणा मनसापि वा
उपेक्षको यताहारो लब्धालब्धे समो भवेत्
यश्चैनमभिनन्देत यश्चैनमपवादयेत्
समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम्
न प्रहृष्येत लाभेषु नालाभेषु च चिन्तयेत्
समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः
एवं सर्वात्मनः साधोः सर्वत्र समदर्शिनः
षण्मासान्नित्ययुक्तस्य शब्दब्रह्मातिवर्तते