Mahabharata

Shanti Parva, Adhyaya 231

Containing 34 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 231, Verse 1

इत्युक्तोऽभिप्रशस्यैतत्परमर्षेस्तु शासनम्

मोक्षधर्मार्थसंयुक्तमिदं प्रष्टुं प्रचक्रमे

Mahabharata

Shanti Parva, Adhyaya 231, Verse 2

प्रजावाञ्श्रोत्रियो यज्वा वृद्धः प्रज्ञोऽनसूयकः

अनागतमनैतिह्यं कथं ब्रह्माधिगच्छति

Mahabharata

Shanti Parva, Adhyaya 231, Verse 3

तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया

सांख्ये वा यदि वा योगे एतत्पृष्टोऽभिधत्स्व मे

Mahabharata

Shanti Parva, Adhyaya 231, Verse 4

मनसश्चेन्द्रियाणां चाप्यैकाग्र्यं समवाप्यते

येनोपायेन पुरुषैस्तच्च व्याख्यातुमर्हसि

Mahabharata

Shanti Parva, Adhyaya 231, Verse 5

नान्यत्र विद्यातपसोर्नान्यत्रेन्द्रियनिग्रहात्

नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन

Mahabharata

Shanti Parva, Adhyaya 231, Verse 6

महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः

भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु

Mahabharata

Shanti Parva, Adhyaya 231, Verse 7

भूमेर्देहो जलात्सारो ज्योतिषश्चक्षुषी स्मृते

प्राणापानाश्रयो वायुः खेष्वाकाशं शरीरिणाम्

Mahabharata

Shanti Parva, Adhyaya 231, Verse 8

क्रान्ते विष्णुर्बले शक्रः कोष्ठेऽग्निर्भुक्तमर्छति

कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती

Mahabharata

Shanti Parva, Adhyaya 231, Verse 9

कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी

दर्शनानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये

Mahabharata

Shanti Parva, Adhyaya 231, Verse 10

शब्दं स्पर्शं तथा रूपं रसं गन्धं च पञ्चमम्

इन्द्रियाणि पृथक्त्वर्थान्मनसो दर्शयन्त्युत

Mahabharata

Shanti Parva, Adhyaya 231, Verse 11

इन्द्रियाणि मनो युङ्क्ते वश्यान्यन्तेव वाजिनः

मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः

Mahabharata

Shanti Parva, Adhyaya 231, Verse 12

इन्द्रियाणां तथैवेषां सर्वेषामीश्वरं मनः

नियमे च विसर्गे च भूतात्मा मनसस्तथा

Mahabharata

Shanti Parva, Adhyaya 231, Verse 13

इन्द्रियाणीन्द्रियार्थाश्च स्वभावश्चेतना मनः

प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम्

Mahabharata

Shanti Parva, Adhyaya 231, Verse 14

आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतना

सत्त्वं हि तेजः सृजति न गुणान्वै कदाचन

Mahabharata

Shanti Parva, Adhyaya 231, Verse 15

एवं सप्तदशं देहे वृतं षोडशभिर्गुणैः

मनीषी मनसा विप्रः पश्यत्यात्मानमात्मनि

Mahabharata

Shanti Parva, Adhyaya 231, Verse 16

न ह्ययं चक्षुषा दृश्यो न च सर्वैरपीन्द्रियैः

मनसा संप्रदीप्तेन महानात्मा प्रकाशते

Mahabharata

Shanti Parva, Adhyaya 231, Verse 17

अशब्दस्पर्शरूपं तदरसागन्धमव्ययम्

अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम्

Mahabharata

Shanti Parva, Adhyaya 231, Verse 18

अव्यक्तं व्यक्तदेहेषु मर्त्येष्वमरमाश्रितम्

योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयसे

Mahabharata

Shanti Parva, Adhyaya 231, Verse 19

विद्याभिजनसंपन्ने ब्राह्मणे गवि हस्तिनि

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः

Mahabharata

Shanti Parva, Adhyaya 231, Verse 20

स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च

वसत्येको महानात्मा येन सर्वमिदं ततम्

Mahabharata

Shanti Parva, Adhyaya 231, Verse 21

सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि

यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा

Mahabharata

Shanti Parva, Adhyaya 231, Verse 22

यावानात्मनि वेदात्मा तावानात्मा परात्मनि

य एवं सततं वेद सोऽमृतत्वाय कल्पते

Mahabharata

Shanti Parva, Adhyaya 231, Verse 23

सर्वभूतात्मभूतस्य सर्वभूतहितस्य च

देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः

Mahabharata

Shanti Parva, Adhyaya 231, Verse 24

शकुनीनामिवाकाशे जले वारिचरस्य वा

यथा गतिर्न दृश्येत तथैव सुमहात्मनः

Mahabharata

Shanti Parva, Adhyaya 231, Verse 25

कालः पचति भूतानि सर्वाण्येवात्मनात्मनि

यस्मिंस्तु पच्यते कालस्तं न वेदेह कश्चन

Mahabharata

Shanti Parva, Adhyaya 231, Verse 26

न तदूर्ध्वं न तिर्यक्च नाधो न च तिरः पुनः

न मध्ये प्रतिगृह्णीते नैव कश्चित्कुतश्चन

Mahabharata

Shanti Parva, Adhyaya 231, Verse 27

सर्वेऽन्तःस्था इमे लोका बाह्यमेषां न किंचन

यः सहस्रं समागच्छेद्यथा बाणो गुणच्युतः

Mahabharata

Shanti Parva, Adhyaya 231, Verse 28

नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः

तस्मात्सूक्ष्मात्सूक्ष्मतरं नास्ति स्थूलतरं ततः

Mahabharata

Shanti Parva, Adhyaya 231, Verse 29

सर्वतःपाणिपादान्तं सर्वतोक्षिशिरोमुखम्

सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति

Mahabharata

Shanti Parva, Adhyaya 231, Verse 30

तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम्

तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते