Shanti Parva, Adhyaya 230, Verse 1
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति
Containing 21 sacred Sanskrit shlokas with multi-author commentaries and translations.
एषा पूर्वतरा वृत्तिर्ब्राह्मणस्य विधीयते
ज्ञानवानेव कर्माणि कुर्वन्सर्वत्र सिध्यति
तत्र चेन्न भवेदेवं संशयः कर्मनिश्चये
किं नु कर्म स्वभावोऽयं ज्ञानं कर्मेति वा पुनः
तत्र चेह विवित्सा स्याज्ज्ञानं चेत्पुरुषं प्रति
उपपत्त्युपलब्धिभ्यां वर्णयिष्यामि तच्छृणु
पौरुषं कारणं केचिदाहुः कर्मसु मानवाः
दैवमेके प्रशंसन्ति स्वभावं चापरे जनाः
पौरुषं कर्म दैवं च फलवृत्तिस्वभावतः
त्रयमेतत्पृथग्भूतमविवेकं तु केचन
एवमेतन्न चाप्येवमुभे चापि न चाप्युभे
कर्मस्था विषमं ब्रूयुः सत्त्वस्थाः समदर्शिनः
त्रेतायां द्वापरे चैव कलिजाश्च ससंशयाः
तपस्विनः प्रशान्ताश्च सत्त्वस्थाश्च कृते युगे
अपृथग्दर्शिनः सर्वे ऋक्सामसु यजुःषु च
कामद्वेषौ पृथग्दृष्ट्वा तपः कृत उपासते
तपोधर्मेण संयुक्तस्तपोनित्यः सुसंशितः
तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति
तपसा तदवाप्नोति यद्भूत्वा सृजते जगत्
तद्भूतश्च ततः सर्वो भूतानां भवति प्रभुः
तदुक्तं वेदवादेषु गहनं वेददर्शिभिः
वेदान्तेषु पुनर्व्यक्तं क्रमयोगेन लक्ष्यते
आरम्भयज्ञाः क्षत्रस्य हविर्यज्ञा विशः स्मृताः
परिचारयज्ञाः शूद्राश्च जपयज्ञा द्विजातयः
परिनिष्ठितकार्यो हि स्वाध्यायेन द्विजो भवेत्
कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते
त्रेतादौ सकला वेदा यज्ञा वर्णाश्रमास्तथा
संरोधादायुषस्त्वेते व्यस्यन्ते द्वापरे युगे
द्वापरे विप्लवं यान्ति वेदाः कलियुगे तथा
दृश्यन्ते नापि दृश्यन्ते कलेरन्ते पुनः पुनः
उत्सीदन्ति स्वधर्माश्च तत्राधर्मेण पीडिताः
गवां भूमेश्च ये चापामोषधीनां च ये रसाः
अधर्मान्तर्हिता वेदा वेदधर्मास्तथाश्रमाः
विक्रियन्ते स्वधर्मस्थाः स्थावराणि चराणि च
यथा सर्वाणि भूतानि वृष्टिर्भौमानि वर्षति
सृजते सर्वतोऽङ्गानि तथा वेदा युगे युगे
विसृतं कालनानात्वमनादिनिधनं च यत्
कीर्तितं तत्पुरस्तान्मे यतः संयान्ति यान्ति च
धातेदं प्रभवस्थानं भूतानां संयमो यमः
स्वभावेन प्रवर्तन्ते द्वंद्वसृष्टानि भूरिशः
सर्गः कालो धृतिर्वेदाः कर्ता कार्यं क्रिया फलम्
एतत्ते कथितं तात यन्मां त्वं परिपृच्छसि