Adi Parva, Adhyaya 223, Verse 1
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित्
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः
स कृच्छ्रकालं संप्राप्य व्यथां नैवैति कर्हिचित्
यस्तु कृच्छ्रमसंप्राप्तं विचेता नावबुध्यते
स कृच्छ्रकाले व्यथितो न प्रजानाति किंचन
धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः
शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः
ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः
ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति
हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम्
सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति
एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम्
तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव
आत्मासि वायोः पवनः शरीरमुत वीरुधाम्
योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः
ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः
अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा
माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो
न नस्त्राता विद्यतेऽग्ने त्वदन्य;स्तस्माद्धि नः परिरक्षैकवीर
यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः
तेन नः परिरक्षाद्य ईडितः शरणैषिणः
त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव
ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह
सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत्
त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च
त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः
मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च
सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः
सर्वस्यास्य भुवनस्य प्रसूति;स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा
त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते
नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम्
सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च
विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र
त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः
जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः
इदं वै सद्म तिग्मांशो वरुणस्य परायणम्
शिवस्त्राता भवास्माकं मास्मानद्य विनाशय
पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन
परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव
एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा
द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया
ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया
ईप्सितं ते करिष्यामि न च ते विद्यते भयम्
मन्दपालेन यूयं हि मम पूर्वं निवेदिताः
वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह
यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम्
उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते
भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो
इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः
एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान्
तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान्
ददाह खाण्डवं चैव समिद्धो जनमेजय