Shanti Parva, Adhyaya 229, Verse 1
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः
उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रयेत्
Containing 25 sacred Sanskrit shlokas with multi-author commentaries and translations.
अथ ज्ञानप्लवं धीरो गृहीत्वा शान्तिमास्थितः
उन्मज्जंश्च निमज्जंश्च ज्ञानमेवाभिसंश्रयेत्
किं तज्ज्ञानमथो विद्या यया निस्तरति द्वयम्
प्रवृत्तिलक्षणो धर्मो निवृत्तिरिति चैव हि
यस्तु पश्येत्स्वभावेन विना भावमचेतनः
पुष्यते च पुनः सर्वान्प्रज्ञया मुक्तहेतुकः
येषां चैकान्तभावेन स्वभावः कारणं मतम्
पूत्वा तृणबुसीकां वै ते लभन्ते न किंचन
ये चैनं पक्षमाश्रित्य वर्तयन्त्यल्पचेतसः
स्वभावं कारणं ज्ञात्वा न श्रेयः प्राप्नुवन्ति ते
स्वभावो हि विनाशाय मोहकर्ममनोभवः
निरुक्तमेतयोरेतत्स्वभावपरभावयोः
कृष्यादीनि हि कर्माणि सस्यसंहरणानि च
प्रज्ञावद्भिः प्रकॢप्तानि यानासनगृहाणि च
आक्रीडानां गृहाणां च गदानामगदस्य च
प्रज्ञावन्तः प्रवक्तारो ज्ञानवद्भिरनुष्ठिताः
प्रज्ञा संयोजयत्यर्थैः प्रज्ञा श्रेयोऽधिगच्छति
राजानो भुञ्जते राज्यं प्रज्ञया तुल्यलक्षणाः
पारावर्यं तु भूतानां ज्ञानेनैवोपलभ्यते
विद्यया तात सृष्टानां विद्यैव परमा गतिः
भूतानां जन्म सर्वेषां विविधानां चतुर्विधम्
जराय्वण्डमथोद्भेदं स्वेदं चाप्युपलक्षयेत्
स्थावरेभ्यो विशिष्टानि जङ्गमान्युपलक्षयेत्
उपपन्नं हि यच्चेष्टा विशिष्येत विशेष्ययोः
आहुर्द्विबहुपादानि जङ्गमानि द्वयानि च
बहुपाद्भ्यो विशिष्टानि द्विपादानि बहून्यपि
द्विपदानि द्वयान्याहुः पार्थिवानीतराणि च
पार्थिवानि विशिष्टानि तानि ह्यन्नानि भुञ्जते
पार्थिवानि द्वयान्याहुर्मध्यमान्युत्तमानि च
मध्यमानि विशिष्टानि जातिधर्मोपधारणात्
मध्यमानि द्वयान्याहुर्धर्मज्ञानीतराणि च
धर्मज्ञानि विशिष्टानि कार्याकार्योपधारणात्
धर्मज्ञानि द्वयान्याहुर्वेदज्ञानीतराणि च
वेदज्ञानि विशिष्टानि वेदो ह्येषु प्रतिष्ठितः
वेदज्ञानि द्वयान्याहुः प्रवक्तॄणीतराणि च
प्रवक्तॄणि विशिष्टानि सर्वधर्मोपधारणात्
विज्ञायन्ते हि यैर्वेदाः सर्वधर्मक्रियाफलाः
सयज्ञाः सखिला वेदाः प्रवक्तृभ्यो विनिःसृताः
प्रवक्तॄणि द्वयान्याहुरात्मज्ञानीतराणि च
आत्मज्ञानि विशिष्टानि जन्माजन्मोपधारणात्
धर्मद्वयं हि यो वेद स सर्वः सर्वधर्मविद्
स त्यागी सत्यसंकल्पः स तु क्षान्तः स ईश्वरः
धर्मज्ञानप्रतिष्ठं हि तं देवा ब्राह्मणं विदुः
शब्दब्रह्मणि निष्णातं परे च कृतनिश्चयम्
अन्तःस्थं च बहिष्ठं च येऽऽधियज्ञाधिदैवतम्
जानन्ति तान्नमस्यामस्ते देवास्तात ते द्विजाः
तेषु विश्वमिदं भूतं साग्रं च जगदाहितम्
तेषां माहात्म्यभावस्य सदृशं नास्ति किंचन
आदिं ते निधनं चैव कर्म चातीत्य सर्वशः
चतुर्विधस्य भूतस्य सर्वस्येशाः स्वयंभुवः