Mahabharata

Shanti Parva, Adhyaya 228

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 228, Verse 1

अथ चेद्रोचयेदेतद्द्रुह्येत मनसा तथा

उन्मज्जंश्च निमज्जंश्च ज्ञानवान्प्लववान्भवेत्

Mahabharata

Shanti Parva, Adhyaya 228, Verse 2

प्रज्ञया निर्मितैर्धीरास्तारयन्त्यबुधान्प्लवैः

नाबुधास्तारयन्त्यन्यानात्मानं वा कथंचन

Mahabharata

Shanti Parva, Adhyaya 228, Verse 3

छिन्नदोषो मुनिर्योगान्युक्तो युञ्जीत द्वादश

दशकर्मसुखानर्थानुपायापायनिर्भयः

Mahabharata

Shanti Parva, Adhyaya 228, Verse 4

चक्षुराचारवित्प्राज्ञो मनसा दर्शनेन च

यच्छेद्वाङ्मनसी बुद्ध्या य इच्छेज्ज्ञानमुत्तमम्

ज्ञानेन यच्छेदात्मानं य इच्छेच्छान्तिमात्मनः

Mahabharata

Shanti Parva, Adhyaya 228, Verse 5

एतेषां चेदनुद्रष्टा पुरुषोऽपि सुदारुणः

यदि वा सर्ववेदज्ञो यदि वाप्यनृचोऽजपः

Mahabharata

Shanti Parva, Adhyaya 228, Verse 6

यदि वा धार्मिको यज्वा यदि वा पापकृत्तमः

यदि वा पुरुषव्याघ्रो यदि वा क्लैब्यधारिता

Mahabharata

Shanti Parva, Adhyaya 228, Verse 7

तरत्येव महादुर्गं जरामरणसागरम्

एवं ह्येतेन योगेन युञ्जानोऽप्येकमन्ततः

अपि जिज्ञासमानो हि शब्दब्रह्मातिवर्तते

Mahabharata

Shanti Parva, Adhyaya 228, Verse 8

धर्मोपस्थो ह्रीवरूथ उपायापायकूबरः

अपानाक्षः प्राणयुगः प्रज्ञायुर्जीवबन्धनः

Mahabharata

Shanti Parva, Adhyaya 228, Verse 9

चेतनाबन्धुरश्चारुराचारग्रहनेमिवान्

दर्शनस्पर्शनवहो घ्राणश्रवणवाहनः

Mahabharata

Shanti Parva, Adhyaya 228, Verse 10

प्रज्ञानाभिः सर्वतन्त्रप्रतोदो ज्ञानसारथिः

क्षेत्रज्ञाधिष्ठितो धीरः श्रद्धादमपुरःसरः

Mahabharata

Shanti Parva, Adhyaya 228, Verse 11

त्यागवर्त्मानुगः क्षेम्यः शौचगो ध्यानगोचरः

जीवयुक्तो रथो दिव्यो ब्रह्मलोके विराजते

Mahabharata

Shanti Parva, Adhyaya 228, Verse 12

अथ संत्वरमाणस्य रथमेतं युयुक्षतः

अक्षरं गन्तुमनसो विधिं वक्ष्यामि शीघ्रगम्

Mahabharata

Shanti Parva, Adhyaya 228, Verse 13

सप्त यो धारणाः कृत्स्ना वाग्यतः प्रतिपद्यते

पृष्ठतः पार्श्वतश्चान्या यावत्यस्ताः प्रधारणाः

Mahabharata

Shanti Parva, Adhyaya 228, Verse 14

क्रमशः पार्थिवं यच्च वायव्यं खं तथा पयः

ज्योतिषो यत्तदैश्वर्यमहंकारस्य बुद्धितः

Mahabharata

Shanti Parva, Adhyaya 228, Verse 15

अव्यक्तस्य तथैश्वर्यं क्रमशः प्रतिपद्यते

विक्रमाश्चापि यस्यैते तथा युङ्क्ते स योगतः

Mahabharata

Shanti Parva, Adhyaya 228, Verse 16

अथास्य योगयुक्तस्य सिद्धिमात्मनि पश्यतः

निर्मथ्यमानः सूक्ष्मत्वाद्रूपाणीमानि दर्शयेत्

Mahabharata

Shanti Parva, Adhyaya 228, Verse 17

शैशिरस्तु यथा धूमः सूक्ष्मः संश्रयते नभः

तथा देहाद्विमुक्तस्य पूर्वरूपं भवत्युत

Mahabharata

Shanti Parva, Adhyaya 228, Verse 18

अथ धूमस्य विरमे द्वितीयं रूपदर्शनम्

जलरूपमिवाकाशे तत्रैवात्मनि पश्यति

Mahabharata

Shanti Parva, Adhyaya 228, Verse 19

अपां व्यतिक्रमे चापि वह्निरूपं प्रकाशते

तस्मिन्नुपरते चास्य पीतवस्त्रवदिष्यते

ऊर्णारूपसवर्णं च तस्य रूपं प्रकाशते

Mahabharata

Shanti Parva, Adhyaya 228, Verse 20

अथ श्वेतां गतिं गत्वा वायव्यं सूक्ष्ममप्यजः

अशुक्लं चेतसः सौक्ष्म्यमव्यक्तं ब्रह्मणोऽस्य वै

Mahabharata

Shanti Parva, Adhyaya 228, Verse 21

एतेष्वपि हि जातेषु फलजातानि मे शृणु

जातस्य पार्थिवैश्वर्ये सृष्टिरिष्टा विधीयते

Mahabharata

Shanti Parva, Adhyaya 228, Verse 22

प्रजापतिरिवाक्षोभ्यः शरीरात्सृजति प्रजाः

अङ्गुल्यङ्गुष्ठमात्रेण हस्तपादेन वा तथा

Mahabharata

Shanti Parva, Adhyaya 228, Verse 23

पृथिवीं कम्पयत्येको गुणो वायोरिति स्मृतः

आकाशभूतश्चाकाशे सवर्णत्वात्प्रणश्यति

Mahabharata

Shanti Parva, Adhyaya 228, Verse 24

वर्णतो गृह्यते चापि कामात्पिबति चाशयान्

न चास्य तेजसा रूपं दृश्यते शाम्यते तथा

Mahabharata

Shanti Parva, Adhyaya 228, Verse 25

अहंकारस्य विजितेः पञ्चैते स्युर्वशानुगाः

षण्णामात्मनि बुद्धौ च जितायां प्रभवत्यथ

Mahabharata

Shanti Parva, Adhyaya 228, Verse 26

निर्दोषा प्रतिभा ह्येनं कृत्स्ना समभिवर्तते

तथैव व्यक्तमात्मानमव्यक्तं प्रतिपद्यते

Mahabharata

Shanti Parva, Adhyaya 228, Verse 27

यतो निःसरते लोको भवति व्यक्तसंज्ञकः

तत्राव्यक्तमयीं व्याख्यां शृणु त्वं विस्तरेण मे

तथा व्यक्तमयीं चैव संख्यां पूर्वं निबोध मे

Mahabharata

Shanti Parva, Adhyaya 228, Verse 28

पञ्चविंशतितत्त्वानि तुल्यान्युभयतः समम्

योगे सांख्येऽपि च तथा विशेषांस्तत्र मे शृणु

Mahabharata

Shanti Parva, Adhyaya 228, Verse 29

प्रोक्तं तद्व्यक्तमित्येव जायते वर्धते च यत्

जीर्यते म्रियते चैव चतुर्भिर्लक्षणैर्युतम्

Mahabharata

Shanti Parva, Adhyaya 228, Verse 30

विपरीतमतो यत्तु तदव्यक्तमुदाहृतम्

द्वावात्मानौ च वेदेषु सिद्धान्तेष्वप्युदाहृतौ