Mahabharata

Shanti Parva, Adhyaya 226

Containing 38 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 226, Verse 1

भूतग्रामे नियुक्तं यत्तदेतत्कीर्तितं मया

ब्राह्मणस्य तु यत्कृत्यं तत्ते वक्ष्यामि पृच्छते

Mahabharata

Shanti Parva, Adhyaya 226, Verse 2

जातकर्मप्रभृत्यस्य कर्मणां दक्षिणावताम्

क्रिया स्यादा समावृत्तेराचार्ये वेदपारगे

Mahabharata

Shanti Parva, Adhyaya 226, Verse 3

अधीत्य वेदानखिलान्गुरुशुश्रूषणे रतः

गुरूणामनृणो भूत्वा समावर्तेत यज्ञवित्

Mahabharata

Shanti Parva, Adhyaya 226, Verse 4

आचार्येणाभ्यनुज्ञातश्चतुर्णामेकमाश्रमम्

आ विमोक्षाच्छरीरस्य सोऽनुतिष्ठेद्यथाविधि

Mahabharata

Shanti Parva, Adhyaya 226, Verse 5

प्रजासर्गेण दारैश्च ब्रह्मचर्येण वा पुनः

वने गुरुसकाशे वा यतिधर्मेण वा पुनः

Mahabharata

Shanti Parva, Adhyaya 226, Verse 6

गृहस्थस्त्वेव सर्वेषां चतुर्णां मूलमुच्यते

तत्र पक्वकषायो हि दान्तः सर्वत्र सिध्यति

Mahabharata

Shanti Parva, Adhyaya 226, Verse 7

प्रजावाञ्श्रोत्रियो यज्वा मुक्तो दिव्यैस्त्रिभिरृणैः

अथान्यानाश्रमान्पश्चात्पूतो गच्छति कर्मभिः

Mahabharata

Shanti Parva, Adhyaya 226, Verse 8

यत्पृथिव्यां पुण्यतमं विद्यास्थानं तदावसेत्

यतेत तस्मिन्प्रामाण्यं गन्तुं यशसि चोत्तमे

Mahabharata

Shanti Parva, Adhyaya 226, Verse 9

तपसा वा सुमहता विद्यानां पारणेन वा

इज्यया वा प्रदानैर्वा विप्राणां वर्धते यशः

Mahabharata

Shanti Parva, Adhyaya 226, Verse 10

यावदस्य भवत्यस्मिँल्लोके कीर्तिर्यशस्करी

तावत्पुण्यकृताँल्लोकाननन्तान्पुरुषोऽश्नुते

Mahabharata

Shanti Parva, Adhyaya 226, Verse 11

अध्यापयेदधीयीत याजयेत यजेत च

न वृथा प्रतिगृह्णीयान्न च दद्यात्कथंचन

Mahabharata

Shanti Parva, Adhyaya 226, Verse 12

याज्यतः शिष्यतो वापि कन्यया वा धनं महत्

यद्यागच्छेद्यजेद्दद्यान्नैकोऽश्नीयात्कथंचन

Mahabharata

Shanti Parva, Adhyaya 226, Verse 13

गृहमावसतो ह्यस्य नान्यत्तीर्थं प्रतिग्रहात्

देवर्षिपितृगुर्वर्थं वृद्धातुरबुभुक्षताम्

Mahabharata

Shanti Parva, Adhyaya 226, Verse 14

अन्तर्हिताभितप्तानां यथाशक्ति बुभूषताम्

द्रव्याणामतिशक्त्यापि देयमेषां कृतादपि

Mahabharata

Shanti Parva, Adhyaya 226, Verse 15

अर्हतामनुरूपाणां नादेयं ह्यस्ति किंचन

उच्चैःश्रवसमप्यश्वं प्रापणीयं सतां विदुः

Mahabharata

Shanti Parva, Adhyaya 226, Verse 16

अनुनीय तथा काव्यः सत्यसंधो महाव्रतः

स्वैः प्राणैर्ब्राह्मणप्राणान्परित्राय दिवं गतः

Mahabharata

Shanti Parva, Adhyaya 226, Verse 17

रन्तिदेवश्च सांकृत्यो वसिष्ठाय महात्मने

अपः प्रदाय शीतोष्णा नाकपृष्ठे महीयते

Mahabharata

Shanti Parva, Adhyaya 226, Verse 18

आत्रेयश्चन्द्रदमयोरर्हतोर्विविधं धनम्

दत्त्वा लोकान्ययौ धीमाननन्तान्स महीपतिः

Mahabharata

Shanti Parva, Adhyaya 226, Verse 19

शिबिरौशीनरोऽङ्गानि सुतं च प्रियमौरसम्

ब्राह्मणार्थमुपाकृत्य नाकपृष्ठमितो गतः

Mahabharata

Shanti Parva, Adhyaya 226, Verse 20

प्रतर्दनः काशिपतिः प्रदाय नयने स्वके

ब्राह्मणायातुलां कीर्तिमिह चामुत्र चाश्नुते

Mahabharata

Shanti Parva, Adhyaya 226, Verse 21

दिव्यं मृष्टशलाकं तु सौवर्णं परमर्द्धिमत्

छत्रं देवावृधो दत्त्वा सराष्ट्रोऽभ्यपतद्दिवम्

Mahabharata

Shanti Parva, Adhyaya 226, Verse 22

सांकृतिश्च तथात्रेयः शिष्येभ्यो ब्रह्म निर्गुणम्

उपदिश्य महातेजा गतो लोकाननुत्तमान्

Mahabharata

Shanti Parva, Adhyaya 226, Verse 23

अम्बरीषो गवां दत्त्वा ब्राह्मणेभ्यः प्रतापवान्

अर्बुदानि दशैकं च सराष्ट्रोऽभ्यपतद्दिवम्

Mahabharata

Shanti Parva, Adhyaya 226, Verse 24

सावित्री कुण्डले दिव्ये शरीरं जनमेजयः

ब्राह्मणार्थे परित्यज्य जग्मतुर्लोकमुत्तमम्

Mahabharata

Shanti Parva, Adhyaya 226, Verse 25

सर्वरत्नं वृषादर्भो युवनाश्वः प्रियाः स्त्रियः

रम्यमावसथं चैव दत्त्वामुं लोकमास्थितः

Mahabharata

Shanti Parva, Adhyaya 226, Verse 26

निमी राष्ट्रं च वैदेहो जामदग्न्यो वसुंधराम्

ब्राह्मणेभ्यो ददौ चापि गयश्चोर्वीं सपत्तनाम्

Mahabharata

Shanti Parva, Adhyaya 226, Verse 27

अवर्षति च पर्जन्ये सर्वभूतानि चासकृत्

वसिष्ठो जीवयामास प्रजापतिरिव प्रजाः

Mahabharata

Shanti Parva, Adhyaya 226, Verse 28

करंधमस्य पुत्रस्तु मरुत्तो नृपतिस्तथा

कन्यामङ्गिरसे दत्त्वा दिवमाशु जगाम ह

Mahabharata

Shanti Parva, Adhyaya 226, Verse 29

ब्रह्मदत्तश्च पाञ्चाल्यो राजा बुद्धिमतां वरः

निधिं शङ्खं द्विजाग्र्येभ्यो दत्त्वा लोकानवाप्तवान्

Mahabharata

Shanti Parva, Adhyaya 226, Verse 30

राजा मित्रसहश्चापि वसिष्ठाय महात्मने

मदयन्तीं प्रियां दत्त्वा तया सह दिवं गतः