Mahabharata

Shanti Parva, Adhyaya 224

Containing 75 sacred Sanskrit shlokas with multi-author commentaries and translations.

Mahabharata

Shanti Parva, Adhyaya 224, Verse 1

आद्यन्तं सर्वभूतानां श्रोतुमिच्छामि कौरव

ध्यानं कर्म च कालं च तथैवायुर्युगे युगे

Mahabharata

Shanti Parva, Adhyaya 224, Verse 2

लोकतत्त्वं च कार्त्स्न्येन भूतानामागतिं गतिम्

सर्गश्च निधनं चैव कुत एतत्प्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 224, Verse 3

यदि तेऽनुग्रहे बुद्धिरस्मास्विह सतां वर

एतद्भवन्तं पृच्छामि तद्भवान्प्रब्रवीतु मे

Mahabharata

Shanti Parva, Adhyaya 224, Verse 4

पूर्वं हि कथितं श्रुत्वा भृगुभाषितमुत्तमम्

भरद्वाजस्य विप्रर्षेस्ततो मे बुद्धिरुत्तमा

Mahabharata

Shanti Parva, Adhyaya 224, Verse 5

जाता परमधर्मिष्ठा दिव्यसंस्थानसंस्थिता

ततो भूयस्तु पृच्छामि तद्भवान्वक्तुमर्हति

Mahabharata

Shanti Parva, Adhyaya 224, Verse 6

अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम्

जगौ यद्भगवान्व्यासः पुत्राय परिपृच्छते

Mahabharata

Shanti Parva, Adhyaya 224, Verse 7

अधीत्य वेदानखिलान्साङ्गोपनिषदस्तथा

अन्विच्छन्नैष्ठिकं कर्म धर्मनैपुणदर्शनात्

Mahabharata

Shanti Parva, Adhyaya 224, Verse 8

कृष्णद्वैपायनं व्यासं पुत्रो वैयासकिः शुकः

पप्रच्छ संदेहमिमं छिन्नधर्मार्थसंशयम्

Mahabharata

Shanti Parva, Adhyaya 224, Verse 9

भूतग्रामस्य कर्तारं कालज्ञाने च निश्चयम्

ब्राह्मणस्य च यत्कृत्यं तद्भवान्वक्तुमर्हति

Mahabharata

Shanti Parva, Adhyaya 224, Verse 10

तस्मै प्रोवाच तत्सर्वं पिता पुत्राय पृच्छते

अतीतानागते विद्वान्सर्वज्ञः सर्वधर्मवित्

Mahabharata

Shanti Parva, Adhyaya 224, Verse 11

अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम्

अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे समवर्तत

Mahabharata

Shanti Parva, Adhyaya 224, Verse 12

काष्ठा निमेषा दश पञ्च चैव; त्रिंशत्तु काष्ठा गणयेत्कलां ताम्

त्रिंशत्कलाश्चापि भवेन्मुहूर्तो; भागः कलाया दशमश्च यः स्यात्

Mahabharata

Shanti Parva, Adhyaya 224, Verse 13

त्रिंशन्मुहूर्तश्च भवेदहश्च; रात्रिश्च संख्या मुनिभिः प्रणीता

मासः स्मृतो रात्र्यहनी च त्रिंश;त्संवत्सरो द्वादशमास उक्तः

संवत्सरं द्वे अयने वदन्ति; संख्याविदो दक्षिणमुत्तरं च

Mahabharata

Shanti Parva, Adhyaya 224, Verse 14

अहोरात्रे विभजते सूर्यो मानुषलौकिके

रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः

Mahabharata

Shanti Parva, Adhyaya 224, Verse 15

पित्र्ये रात्र्यहनी मासः प्रविभागस्तयोः पुनः

कृष्णोऽहः कर्मचेष्टायां शुक्लः स्वप्नाय शर्वरी

Mahabharata

Shanti Parva, Adhyaya 224, Verse 16

दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः

अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम्

Mahabharata

Shanti Parva, Adhyaya 224, Verse 17

ये ते रात्र्यहनी पूर्वे कीर्तिते दैवलौकिके

तयोः संख्याय वर्षाग्रं ब्राह्मे वक्ष्याम्यहःक्षपे

Mahabharata

Shanti Parva, Adhyaya 224, Verse 18

तेषां संवत्सराग्राणि प्रवक्ष्याम्यनुपूर्वशः

कृते त्रेतायुगे चैव द्वापरे च कलौ तथा

Mahabharata

Shanti Parva, Adhyaya 224, Verse 19

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्

तस्य तावच्छती संध्या संध्यांशश्च तथाविधः

Mahabharata

Shanti Parva, Adhyaya 224, Verse 20

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु

एकापायेन संयान्ति सहस्राणि शतानि च

Mahabharata

Shanti Parva, Adhyaya 224, Verse 21

एतानि शाश्वताँल्लोकान्धारयन्ति सनातनान्

एतद्ब्रह्मविदां तात विदितं ब्रह्म शाश्वतम्

Mahabharata

Shanti Parva, Adhyaya 224, Verse 22

चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे

नाधर्मेणागमः कश्चित्परस्तस्य प्रवर्तते

Mahabharata

Shanti Parva, Adhyaya 224, Verse 23

इतरेष्वागमाद्धर्मः पादशस्त्ववरोप्यते

चौरिकानृतमायाभिरधर्मश्चोपचीयते

Mahabharata

Shanti Parva, Adhyaya 224, Verse 24

अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः

कृते त्रेतादिष्वेतेषां पादशो ह्रसते वयः

Mahabharata

Shanti Parva, Adhyaya 224, Verse 25

वेदवादाश्चानुयुगं ह्रसन्तीति च नः श्रुतम्

आयूंषि चाशिषश्चैव वेदस्यैव च यत्फलम्

Mahabharata

Shanti Parva, Adhyaya 224, Verse 26

अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे

अन्ये कलियुगे धर्मा यथाशक्तिकृता इव

Mahabharata

Shanti Parva, Adhyaya 224, Verse 27

तपः परं कृतयुगे त्रेतायां ज्ञानमुत्तमम्

द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे

Mahabharata

Shanti Parva, Adhyaya 224, Verse 28

एतां द्वादशसाहस्रीं युगाख्यां कवयो विदुः

सहस्रं परिवृत्तं तद्ब्राह्मं दिवसमुच्यते

Mahabharata

Shanti Parva, Adhyaya 224, Verse 29

रात्रिस्तावत्तिथी ब्राह्मी तदादौ विश्वमीश्वरः

प्रलयेऽध्यात्ममाविश्य सुप्त्वा सोऽन्ते विबुध्यते

Mahabharata

Shanti Parva, Adhyaya 224, Verse 30

सहस्रयुगपर्यन्तमहर्यद्ब्रह्मणो विदुः

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः